भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.23

03.23.001

भ्प्_03.23.001।0 मैत्रेय उवाच
पितृभ्यां प्रस्थिते साध्वी पतिम् इङ्गित-कोविदा ।
नित्यं पर्यचरत् प्रीत्या भवानीव भवं प्रभुम्

03.23.002

विश्रम्भेणात्म-शौचेन गौरवेण दमेन च ।
शुश्रूषया सौहृदेन वाचा मधुरया च भोः

03.23.003

विसृज्य कामं दम्भं च द्वेषं लोभम् अघं मदम् ।
अप्रमत्तोद्यता नित्यं तेजीयांसम् अतोषयत्

03.23.004

स वै देवर्षि-वर्यस् तां मानवीं समनुव्रताम् ।
दैवाद् गरीयसः पत्युर् आशासानां महाशिषः

03.23.005

कालेन भूयसा क्षामां कर्शितां व्रत-चर्यया ।
प्रेम-गद्गदया वाचा पीडितः कृपयाब्रवीत्

03.23.010

भ्प्_03.23.006।0 कर्दम उवाच
तुष्टो ऽहम् अद्य तव मानवि मानदायाः $ शुश्रूषया परमया परया च भक्त्या &
तुष्टो ऽहम् अद्य तव मानवि मानदायाः $ शुश्रूषया परमया परया च भक्त्या &
यो देहिनाम् अयम् अतीव सुहृत् स देहो % नावेक्षितः समुचितः क्षपितुं मद्-अर्थे ॥ भ्प्_03.23.006* ॥
ये मे स्व-धर्म-निरतस्य तपः-समाधि- $ विद्यात्म-योग-विजिता भगवत्-प्रसादाः &
ये मे स्व-धर्म-निरतस्य तपः-समाधि- $ विद्यात्म-योग-विजिता भगवत्-प्रसादाः &
तान् एव ते मद्-अनुसेवनयावरुद्धान् % दृष्टिं प्रपश्य वितराम्य् अभयान् अशोकान् ॥ भ्प्_03.23.007* ॥
अन्ये पुनर् भगवतो भ्रुव उद्विजृम्भ- $ विभ्रंशितार्थ-रचनाः किम् उरुक्रमस्य &
अन्ये पुनर् भगवतो भ्रुव उद्विजृम्भ- $ विभ्रंशितार्थ-रचनाः किम् उरुक्रमस्य &
सिद्धासि भुङ्क्ष्व विभवान् निज-धर्म-दोहान् % दिव्यान् नरैर् दुरधिगान् नृप-विक्रियाभिः ॥ भ्प्_03.23.008* ॥
एवं ब्रुवाणम् अबलाखिल-योगमाया- $ विद्या-विचक्षणम् अवेक्ष्य गताधिर् आसीत् &
एवं ब्रुवाणम् अबलाखिल-योगमाया- $ विद्या-विचक्षणम् अवेक्ष्य गताधिर् आसीत् &
सम्प्रश्रय-प्रणय-विह्वलया गिरेषद्- % व्रीडावलोक-विलसद्-धसिताननाह ॥ भ्प्_03.23.009*

03.23.012

0 देवहूतिर् उवाच
राद्धं बत द्विज-वृषैतद् अमोघ-योग- $ मायाधिपे त्वयि विभो तद् अवैमि भर्तः &
राद्धं बत द्विज-वृषैतद् अमोघ-योग- $ मायाधिपे त्वयि विभो तद् अवैमि भर्तः &
यस् ते ऽभ्यधायि समयः सकृद् अङ्ग-सङ्गो % भूयाद् गरीयसि गुणः प्रसवः सतीनाम् ॥ भ्प्_03.23.010* ॥
तत्रेति-कृत्यम् उपशिक्ष यथोपदेशं $ येनैष मे कर्शितो ऽतिरिरंसयात्मा &
तत्रेति-कृत्यम् उपशिक्ष यथोपदेशं $ येनैष मे कर्शितो ऽतिरिरंसयात्मा &
सिद्ध्येत ते कृत-मनोभव-धर्षिताया % दीनस् तद् ईश भवनं सदृशं विचक्ष्व ॥ भ्प्_03.23.011*
0 मैत्रेय उवाच
प्रियायाः प्रियम् अन्विच्छन् कर्दमो योगम् आस्थितः ।
विमानं काम-गं क्षत्तस् तर्ह्य् एवाविरचीकरत्

03.23.013

सर्व-काम-दुघं दिव्यं सर्व-रत्न-समन्वितम् ।
सर्वर्द्ध्य्-उपचयोदर्कं मणि-स्तम्भैर् उपस्कृतम्

03.23.014

दिव्योपकरणोपेतं सर्व-काल-सुखावहम् ।
पट्टिकाभिः पताकाभिर् विचित्राभिर् अलङ्कृतम्

03.23.015

स्रग्भिर् विचित्र-माल्याभिर् मञ्जु-शिञ्जत्-षड्-अङ्घ्रिभिः ।
दुकूल-क्षौम-कौशेयैर् नाना-वस्त्रैर् विराजितम्

03.23.016

उपर्य् उपरि विन्यस्त- निलयेषु पृथक् पृथक् ।
क्षिप्तैः कशिपुभिः कान्तं पर्यङ्क-व्यजनासनैः

03.23.017

तत्र तत्र विनिक्षिप्त- नाना-शिल्पोपशोभितम् ।
महा-मरकत-स्थल्या जुष्टं विद्रुम-वेदिभिः

03.23.018

द्वाःसु विद्रुम-देहल्या भातं वज्र-कपाटवत् ।
शिखरेष्व् इन्द्रनीलेषु हेम-कुम्भैर् अधिश्रितम्

03.23.019

चक्षुष्मत् पद्मरागाग्र्यैर् वज्र-भित्तिषु निर्मितैः ।
जुष्टं विचित्र-वैतानैर् महार्हैर् हेम-तोरणैः

03.23.020

हंस-पारावत-व्रातैस् तत्र तत्र निकूजितम् ।
कृत्रिमान् मन्यमानैः स्वान् अधिरुह्याधिरुह्य च

03.23.021

विहार-स्थान-विश्राम- संवेश-प्राङ्गणाजिरैः ।
यथोपजोषं रचितैर् विस्मापनम् इवात्मनः

03.23.022

ईदृग् गृहं तत् पश्यन्तीं नातिप्रीतेन चेतसा ।
सर्व-भूताशयाभिज्ञः प्रावोचत् कर्दमः स्वयम्

03.23.023

निमज्ज्यास्मिन् ह्रदे भीरु विमानम् इदम् आरुह ।
इदं शुक्ल-कृतं तीर्थम् आशिषां यापकं नृणाम्

03.23.024

सा तद् भर्तुः समादाय वचः कुवलयेक्षणा ।
सरजं बिभ्रती वासो वेणी-भूतांश् च मूर्धजान्

03.23.025

अङ्गं च मल-पङ्केन सञ्छन्नं शबल-स्तनम् ।
आविवेश सरस्वत्याः सरः शिव-जलाशयम्

03.23.026

सान्तः सरसि वेश्म-स्थाः शतानि दश कन्यकाः ।
सर्वाः किशोर-वयसो ददर्शोत्पल-गन्धयः

03.23.027

तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः ।
वयं कर्म-करीस् तुभ्यं शाधि नः करवाम किम्

03.23.028

स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् ।
दुकूले निर्मले नूत्ने ददुर् अस्यै च मानदाः

03.23.029

भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च ।
अन्नं सर्व-गुणोपेतं पानं चैवामृतासवम्

03.23.030

अथादर्शे स्वम् आत्मानं स्रग्विणं विरजाम्बरम् ।
विरजं कृत-स्वस्त्ययनं कन्याभिर् बहु-मानितम्

03.23.031

स्नातं कृत-शिरः-स्नानं सर्वाभरण-भूषितम् ।
निष्क-ग्रीवं वलयिनं कूजत्-काञ्चन-नूपुरम्

03.23.032

श्रोण्योर् अध्यस्तया काञ्च्या काञ्चन्या बहु-रत्नया ।
हारेण च महार्हेण रुचकेन च भूषितम्

03.23.033

सुदता सुभ्रुवा श्लक्ष्ण- स्निग्धापाङ्गेन चक्षुषा ।
पद्म-कोश-स्पृधा नीलैर् अलकैश् च लसन्-मुखम्

03.23.034

यदा सस्मार ऋषभम् ऋषीणां दयितं पतिम् ।
तत्र चास्ते सह स्त्रीभिर् यत्रास्ते स प्रजापतिः

03.23.035

भर्तुः पुरस्ताद् आत्मानं स्त्री-सहस्र-वृतं तदा ।
निशाम्य तद्-योग-गतिं संशयं प्रत्यपद्यत

03.23.036

स तां कृत-मल-स्नानां विभ्राजन्तीम् अपूर्ववत् ।
आत्मनो बिभ्रतीं रूपं संवीत-रुचिर-स्तनीम्

03.23.037

विद्याधरी-सहस्रेण सेव्यमानां सुवाससम् ।
जात-भावो विमानं तद् आरोहयद् अमित्र-हन्

03.23.040

तस्मिन्न् अलुप्त-महिमा प्रिययानुरक्तो $ विद्याधरीभिर् उपचीर्ण-वपुर् विमाने &अम्प्;
बभ्राज उत्कच-कुमुद्-गणवान् अपीच्यस् % ताराभिर् आवृत इवोडु-पतिर् नभः-स्थः ॥ भ्प्_03.23.038* ॥
तेनाष्ट-लोकप-विहार-कुलाचलेन्द्र- $ द्रोणीष्व् अनङ्ग-सख-मारुत-सौभगासु &
तेनाष्ट-लोकप-विहार-कुलाचलेन्द्र- $ द्रोणीष्व् अनङ्ग-सख-मारुत-सौभगासु &
सिद्धैर् नुतो द्युधुनि-पात-शिव-स्वनासु % रेमे चिरं धनदवल्-ललना-वरूथी ॥ भ्प्_03.23.039* ॥
वैश्रम्भके सुरसने नन्दने पुष्पभद्रके ।
मानसे चैत्ररथ्ये च स रेमे रामया रतः

03.23.041

भ्राजिष्णुना विमानेन काम-गेन महीयसा ।
वैमानिकान् अत्यशेत चरल् लोकान् यथानिलः

03.23.042

किं दुरापादनं तेषां पुंसाम् उद्दाम-चेतसाम् ।
यैर् आश्रितस् तीर्थ-पदश् चरणो व्यसनात्ययः

03.23.043

प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्व-संस्थया ।
बह्व्-आश्चर्यं महा-योगी स्वाश्रमाय न्यवर्तत

03.23.044

विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् ।
रामां निरमयन् रेमे वर्ष-पूगान् मुहूर्तवत्

03.23.045

तस्मिन् विमान उत्कृष्टां शय्यां रति-करीं श्रिता ।
न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता

03.23.046

एवं योगानुभावेन दम्-पत्यो रममाणयोः ।
शतं व्यतीयुः शरदः काम-लालसयोर् मनाक्

03.23.047

तस्याम् आधत्त रेतस् तां भावयन्न् आत्मनात्म-वित् ।
नोधा विधाय रूपं स्वं सर्व-सङ्कल्प-विद् विभुः

03.23.048

अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः ।
सर्वास् ताश् चारु-सर्वाङ्ग्यो लोहितोत्पल-गन्धयः

03.23.049

पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशती बहिः ।
स्मयमाना विक्लवेन हृदयेन विदूयता

03.23.050

लिखन्त्य् अधो-मुखी भूमिं पदा नख-मणि-श्रिया ।
उवाच ललितां वाचं निरुध्याश्रु-कलां शनैः

03.23.051

भ्प्_03.23.051।0 देवहूतिर् उवाच
सर्वं तद् भगवान् मह्यम् उपोवाह प्रतिश्रुतम् ।
अथापि मे प्रपन्नाया अभयं दातुम् अर्हसि

03.23.052

ब्रह्मन् दुहितृभिस् तुभ्यं विमृग्याः पतयः समाः ।
कश्चित् स्यान् मे विशोकाय त्वयि प्रव्रजिते वनम्

03.23.053

एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो ।
इन्द्रियार्थ-प्रसङ्गेन परित्यक्त-परात्मनः

03.23.054

इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस् त्वयि मे कृतः ।
अजानन्त्या परं भावं तथाप्य् अस्त्व् अभयाय मे

03.23.055

सङ्गो यः संसृतेर् हेतुर् असत्सु विहितो ऽधिया ।
स एव साधुषु कृतो निःसङ्गत्वाय कल्पते

03.23.056

नेह यत् कर्म धर्माय न विरागाय कल्पते ।
न तीर्थ-पद-सेवायै जीवन्न् अपि मृतो हि सः

03.23.057

साहं भगवतो नूनं वञ्चिता मायया दृढम् ।
यत् त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc