भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.22

03.22.001

भ्प्_03.22.001।0 मैत्रेय उवाच
एवम् आविष्कृताशेष- गुण-कर्मोदयो मुनिम् ।
सव्रीड इव तं सम्राड् उपारतम् उवाच ह

03.22.002

भ्प्_03.22.002।0 मनुर् उवाच
ब्रह्मासृजत् स्व-मुखतो युष्मान् आत्म-परीप्सया ।
छन्दोमयस् तपो-विद्या- योग-युक्तान् अलम्पटान्

03.22.003

तत्-त्राणायासृजच् चास्मान् दोः-सहस्रात् सहस्र-पात् ।
हृदयं तस्य हि ब्रह्म क्षत्रम् अङ्गं प्रचक्षते

03.22.004

अतो ह्य् अन्योन्यम् आत्मानं ब्रह्म क्षत्रं च रक्षतः ।
रक्षति स्माव्ययो देवः स यः सद्-असद्-आत्मकः

03.22.005

तव सन्दर्शनाद् एव च्छिन्ना मे सर्व-संशयाः ।
यत् स्वयं भगवान् प्रीत्या धर्मम् आह रिरक्षिषोः

03.22.006

दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो यो ऽकृतात्मनाम् ।
दिष्ट्या पाद-रजः स्पृष्टं शीर्ष्णा मे भवतः शिवम्

03.22.007

दिष्ट्या त्वयानुशिष्टो ऽहं कृतश् चानुग्रहो महान् ।
अपावृतैः कर्ण-रन्ध्रैर् जुष्टा दिष्ट्योशतीर् गिरः

03.22.008

स भवान् दुहितृ-स्नेह- परिक्लिष्टात्मनो मम ।
श्रोतुम् अर्हसि दीनस्य श्रावितं कृपया मुने

03.22.009

प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम ।
अन्विच्छति पतिं युक्तं वयः-शील-गुणादिभिः

03.22.010

यदा तु भवतः शील- श्रुत-रूप-वयो-गुणान् ।
अशृणोन् नारदाद् एषा त्वय्य् आसीत् कृत-निश्चया

03.22.011

तत् प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया ।
सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु

03.22.012

उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।
अपि निर्मुक्त-सङ्गस्य काम-रक्तस्य किं पुनः

03.22.013

य उद्यतम् अनादृत्य कीनाशम् अभियाचते ।
क्षीयते तद्-यशः स्फीतं मानश् चावज्ञया हतः

03.22.014

अहं त्वाशृणवं विद्वन् विवाहार्थं समुद्यतम् ।
अतस् त्वम् उपकुर्वाणः प्रत्तां प्रतिगृहाण मे

03.22.015

भ्प्_03.22.015।0 ऋषिर् उवाच
बाढम् उद्वोढु-कामो ऽहम् अप्रत्ता च तवात्मजा ।
आवयोर् अनुरूपो ऽसाव् आद्यो वैवाहिको विधिः

03.22.016

कामः स भूयान् नरदेव ते ऽस्याः पुत्र्याः समाम्नाय-विधौ प्रतीतः ।
क एव ते तनयां नाद्रियेत स्वयैव कान्त्या क्षिपतीम् इव श्रियम्

03.22.017

यां हर्म्य-पृष्ठे क्वणद्-अङ्घ्रि-शोभां विक्रीडतीं कन्दुक-विह्वलाक्षीम् ।
विश्वावसुर् न्यपतत् स्वाद् विमानाद् विलोक्य सम्मोह-विमूढ-चेताः

03.22.018

तां प्रार्थयन्तीं ललना-ललामम् असेवित-श्री-चरणैर् अदृष्टाम् ।
वत्सां मनोर् उच्चपदः स्वसारं को नानुमन्येत बुधो ऽभियाताम्

03.22.019

अतो भजिष्ये समयेन साध्वीं यावत् तेजो बिभृयाद् आत्मनो मे ।
अतो धर्मान् पारमहंस्य-मुख्यान् शुक्ल-प्रोक्तान् बहु मन्ये ऽविहिंस्रान्

03.22.020

यतो ऽभवद् विश्वम् इदं विचित्रं संस्थास्यते यत्र च वावतिष्ठते ।
प्रजापतीनां पतिर् एष मह्यं परं प्रमाणं भगवान् अनन्तः

03.22.021

भ्प्_03.22.021।0 मैत्रेय उवाच
स उग्र-धन्वन्न् इयद् एवाबभाषे आसीच् च तूष्णीम् अरविन्द-नाभम् ।
धियोपगृह्णन् स्मित-शोभितेन मुखेन चेतो लुलुभे देवहूत्याः

03.22.022

सो ऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम् ।
तस्मै गुण-गणाढ्याय ददौ तुल्यां प्रहर्षितः

03.22.023

शतरूपा महा-राज्ञी पारिबर्हान् महा-धनान् ।
दम्पत्योः पर्यदात् प्रीत्या भूषा-वासः परिच्छदान्

03.22.024

प्रत्तां दुहितरं सम्राट् सदृक्षाय गत-व्यथः ।
उपगुह्य च बाहुभ्याम् औत्कण्ठ्योन्मथिताशयः

03.22.025

अशक्नुवंस् तद्-विरहं मुञ्चन् बाष्प-कलां मुहुः ।
आसिञ्चद् अम्ब वत्सेति नेत्रोदैर् दुहितुः शिखाः

03.22.026

आमन्त्र्य तं मुनि-वरम् अनुज्ञातः सहानुगः ।
प्रतस्थे रथम् आरुह्य सभार्यः स्व-पुरं नृपः

03.22.027

उभयोर् ऋषि-कुल्यायाः सरस्वत्याः सुरोधसोः ।
ऋषीणाम् उपशान्तानां पश्यन्न् आश्रम-सम्पदः

03.22.028

तम् आयान्तम् अभिप्रेत्य ब्रह्मावर्तात् प्रजाः पतिम् ।
गीत-संस्तुति-वादित्रैः प्रत्युदीयुः प्रहर्षिताः

03.22.029

बर्हिष्मती नाम पुरी सर्व-सम्पत्-समन्विता ।
न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः

03.22.030

कुशाः काशास् त एवासन् शश्वद्-धरित-वर्चसः ।
ऋषयो यैः पराभाव्य यज्ञ-घ्नान् यज्ञम् ईजिरे

03.22.031

कुश-काशमयं बर्हिर् आस्तीर्य भगवान् मनुः ।
अयजद् यज्ञ-पुरुषं लब्धा स्थानं यतो भुवम्

03.22.032

बर्हिष्मतीं नाम विभुर् यां निर्विश्य समावसत् ।
तस्यां प्रविष्टो भवनं ताप-त्रय-विनाशनम्

03.22.033

सभार्यः सप्रजः कामान् बुभुजे ऽन्याविरोधतः ।
सङ्गीयमान-सत्-कीर्तिः सस्त्रीभिः सुर-गायकैः ।
प्रत्य्-ऊषेष्व् अनुबद्धेन हृदा शृण्वन् हरेः कथाः

03.22.034

निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् ।
यद् आभ्रंशयितुं भोगा न शेकुर् भगवत्-परम्

03.22.035

अयात-यामास् तस्यासन् यामाः स्वान्तर-यापनाः ।
शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः

03.22.036

स एवं स्वान्तरं निन्ये युगानाम् एक-सप्ततिम् ।
वासुदेव-प्रसङ्गेन परिभूत-गति-त्रयः

03.22.037

शारीरा मानसा दिव्या वैयासे ये च मानुषाः ।
भौतिकाश् च कथं क्लेशा बाधन्ते हरि-संश्रयम्

03.22.038

यः पृष्टो मुनिभिः प्राह धर्मान् नाना-विधान् छुभान् ।
नृणां वर्णाश्रमाणां च सर्व-भूत-हितः सदा

03.22.039

एतत् त आदि-राजस्य मनोश् चरितम् अद्भुतम् ।
वर्णितं वर्णनीयस्य तद्-अपत्योदयं शृणु

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc