भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.18

03.18.001

भ्प्_03.18.001।0 मैत्रेय उवाच
तद् एवम् आकर्ण्य जलेश-भाषितं महा-मनास् तद् विगणय्य दुर्मदः ।
हरेर् विदित्वा गतिम् अङ्ग नारदाद् रसातलं निर्विविशे त्वरान्वितः

03.18.002

ददर्श तत्राभिजितं धरा-धरं प्रोन्नीयमानावनिम् अग्र-दंष्ट्रया ।
मुष्णन्तम् अक्ष्णा स्व-रुचो ऽरुण-श्रिया जहास चाहो वन-गोचरो मृगः

03.18.003

आहैनम् एह्य् अज्ञ महीं विमुञ्च नो रसौकसां विश्व-सृजेयम् अर्पिता ।
न स्वस्ति यास्यस्य् अनया ममेक्षतः सुराधमासादित-सूकराकृते

03.18.004

त्वं नः सपत्नैर् अभवाय किं भृतो यो मायया हन्त्य् असुरान् परोक्ष-जित् ।
त्वां योगमाया-बलम् अल्प-पौरुषं संस्थाप्य मूढ प्रमृजे सुहृच्-छुचः

03.18.005

त्वयि संस्थिते गदया शीर्ण-शीर्षण्य् अस्मद्-भुज-च्युतया ये च तुभ्यम् ।
बलिं हरन्त्य् ऋषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्य् अमूलाः

03.18.006

स तुद्यमानो ऽरि-दुरुक्त-तोमरैर् दंष्ट्राग्र-गां गाम् उपलक्ष्य भीताम् ।
तोदं मृषन् निरगाद् अम्बु-मध्याद् ग्राहाहतः स-करेणुर् यथेभः

03.18.007

तं निःसरन्तं सलिलाद् अनुद्रुतो हिरण्य-केशो द्विरदं यथा झषः ।
कराल-दंष्ट्रो ऽशनि-निस्वनो ऽब्रवीद् गत-ह्रियां किं त्व् असतां विगर्हितम्

03.18.008

स गाम् उदस्तात् सलिलस्य गोचरे विन्यस्य तस्याम् अदधात् स्व-सत्त्वम् ।
अभिष्टुतो विश्व-सृजा प्रसूनैर् आपूर्यमाणो विबुधैः पश्यतो ऽरेः

03.18.009

परानुषक्तं तपनीयोपकल्पं महा-गदं काञ्चन-चित्र-दंशम् ।
मर्माण्य् अभीक्ष्णं प्रतुदन्तं दुरुक्तैः प्रचण्ड-मन्युः प्रहसंस् तं बभाषे

03.18.010

भ्प्_03.18.010।0 श्री-भगवान् उवाच
सत्यं वयं भो वन-गोचरा मृगा युष्मद्-विधान् मृगये ग्राम-सिंहान् ।
न मृत्यु-पाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्णन्त्य् अभद्र

03.18.011

एते वयं न्यास-हरा रसौकसां गत-ह्रियो गदया द्रावितास् ते ।
तिष्ठामहे ऽथापि कथञ्चिद् आजौ स्थेयं क्व यामो बलिनोत्पाद्य वैरम्

03.18.012

त्वं पद्-रथानां किल यूथपाधिपो घटस्व नो ऽस्वस्तय आश्व् अनूहः ।
संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञां नातिपिपर्त्य् असभ्यः

03.18.013

भ्प्_03.18.013।0 मैत्रेय उवाच
सो ऽधिक्षिप्तो भगवता प्रलब्धश् च रुषा भृशम् ।
आजहारोल्बणं क्रोधं क्रीड्यमानो ऽहि-राड् इव

03.18.014

सृजन्न् अमर्षितः श्वासान् मन्यु-प्रचलितेन्द्रियः ।
आसाद्य तरसा दैत्यो गदया न्यहनद् धरिम्

03.18.015

भगवांस् तु गदा-वेगं विसृष्टं रिपुणोरसि ।
अवञ्चयत् तिरश्चीनो योगारूढ इवान्तकम्

03.18.016

पुनर् गदां स्वाम् आदाय भ्रामयन्तम् अभीक्ष्णशः ।
अभ्यधावद् धरिः क्रुद्धः संरम्भाद् दष्ट-दच्छदम्

03.18.017

ततश् च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः ।
आजघ्ने स तु तां सौम्य गदया कोविदो ऽहनत्

03.18.018

एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिर् एव च ।
जिगीषया सुसंरब्धाव् अन्योन्यम् अभिजघ्नतुः

03.18.019

तयोः स्पृधोस् तिग्म-गदाहताङ्गयोः क्षतास्रव-घ्राण-विवृद्ध-मन्य्वोः ।
विचित्र-मार्गांश् चरतोर् जिगीषया व्यभाद् इलायाम् इव शुष्मिणोर् मृधः

03.18.020

दैत्यस्य यज्ञावयवस्य माया- गृहीत-वाराह-तनोर् महात्मनः ।
कौरव्य मह्यां द्विषतोर् विमर्दनं दिदृक्षुर् आगाद् ऋषिभिर् वृतः स्वराट्

03.18.021

आसन्न-शौण्डीरम् अपेत-साध्वसं कृत-प्रतीकारम् अहार्य-विक्रमम् ।
विलक्ष्य दैत्यं भगवान् सहस्र-णीर् जगाद नारायणम् आदि-सूकरम्

03.18.022

भ्प्_03.18.022।0 ब्रह्मोवाच
एष ते देव देवानाम् अङ्घ्रि-मूलम् उपेयुषाम् ।
विप्राणां सौरभेयीणां भूतानाम् अप्य् अनागसाम्

03.18.023

आगस्-कृद् भय-कृद् दुष्कृद् अस्मद्-राद्ध-वरो ऽसुरः ।
अन्वेषन्न् अप्रतिरथो लोकान् अटति कण्टकः

03.18.024

मैनं मायाविनं दृप्तं निरङ्कुशम् असत्तमम् ।
आक्रीड बालवद् देव यथाशीविषम् उत्थितम्

03.18.025

न यावद् एष वर्धेत स्वां वेलां प्राप्य दारुणः ।
स्वां देव मायाम् आस्थाय तावज् जह्य् अघम् अच्युत

03.18.026

एषा घोरतमा सन्ध्या लोक-च्छम्बट्-करी प्रभो ।
उपसर्पति सर्वात्मन् सुराणां जयम् आवह

03.18.027

अधुनैषो ऽभिजिन् नाम योगो मौहूर्तिको ह्य् अगात् ।
शिवाय नस् त्वं सुहृदाम् आशु निस्तर दुस्तरम्

03.18.028

दिष्ट्या त्वां विहितं मृत्युम् अयम् आसादितः स्वयम् ।
विक्रम्यैनं मृधे हत्वा लोकान् आधेहि शर्मणि

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc