भागवत पुराण · अध्याय 03.17
विश्वस्य यः स्थिति-लयोद्भव-हेतुर् आद्यो $ योगेश्वरैर् अपि दुरत्यय-योगमायः &अम्प्;
क्षेमं विधास्यति स नो भगवांस् त्र्यधीशस् % तत्रास्मदीय-विमृशेन कियान् इहार्थः ॥ भ्प्_03.16.037*
0 मैत्रेय उवाच
निशम्यात्म-भुवा गीतं कारणं शङ्कयोज्झिताः ।
ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः
दितिस् तु भर्तुर् आदेशाद् अपत्य-परिशङ्किनी ।
पूर्णे वर्ष-शते साध्वी पुत्रौ प्रसुषुवे यमौ
उत्पाता बहवस् तत्र निपेतुर् जायमानयोः ।
दिवि भुव्य् अन्तरिक्षे च लोकस्योरु-भयावहाः
सहाचला भुवश् चेलुर् दिशः सर्वाः प्रजज्वलुः ।
सोल्काश् चाशनयः पेतुः केतवश् चार्ति-हेतवः
ववौ वायुः सुदुःस्पर्शः फूत्-कारान् ईरयन् मुहुः ।
उन्मूलयन् नग-पतीन् वात्यानीको रजो-ध्वजः
उद्धसत्-तडिद्-अम्भोद- घटया नष्ट-भागणे ।
व्योम्नि प्रविष्ट-तमसा न स्म व्यादृश्यते पदम्
चुक्रोश विमना वार्धिर् उदूर्मिः क्षुभितोदरः ।
सोदपानाश् च सरितश् चुक्षुभुः शुष्क-पङ्कजाः
मुहुः परिधयो ऽभूवन् सराह्वोः शशि-सूर्ययोः ।
निर्घाता रथ-निर्ह्रादा विवरेभ्यः प्रजज्ञिरे
अन्तर्-ग्रामेषु मुखतो वमन्त्यो वह्निम् उल्बणम् ।
सृगालोलूक-टङ्कारैः प्रणेदुर् अशिवं शिवाः
सङ्गीतवद् रोदनवद् उन्नमय्य शिरोधराम् ।
व्यमुञ्चन् विविधा वाचो ग्राम-सिंहास् ततस् ततः
खराश् च कर्कशैः क्षत्तः खुरैर् घ्नन्तो धरा-तलम् ।
खार्कार-रभसा मत्ताः पर्यधावन् वरूथशः
रुदन्तो रासभ-त्रस्ता नीडाद् उदपतन् खगाः ।
घोषे ऽरण्ये च पशवः शकृन्-मूत्रम् अकुर्वत
गावो ऽत्रसन्न् असृग्-दोहास् तोयदाः पूय-वर्षिणः ।
व्यरुदन् देव-लिङ्गानि द्रुमाः पेतुर् विनानिलम्
ग्रहान् पुण्यतमान् अन्ये भगणांश् चापि दीपिताः ।
अतिचेरुर् वक्र-गत्या युयुधुश् च परस्परम्
दृष्ट्वान्यांश् च महोत्पातान् अतत्-तत्त्व-विदः प्रजाः ।
ब्रह्म-पुत्रान् ऋते भीता मेनिरे विश्व-सम्प्लवम्
ताव् आदि-दैत्यौ सहसा व्यज्यमानात्म-पौरुषौ ।
ववृधाते ऽश्म-सारेण कायेनाद्रि-पती इव
दिवि-स्पृशौ हेम-किरीट-कोटिभिर् निरुद्ध-काष्ठौ स्फुरद्-अङ्गदा-भुजौ ।
गां कम्पयन्तौ चरणैः पदे पदे कट्या सुकाञ्च्यार्कम् अतीत्य तस्थतुः
प्रजापतिर् नाम तयोर् अकार्षीद् यः प्राक् स्व-देहाद् यमयोर् अजायत ।
तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षम् असूत साग्रतः
चक्रे हिरण्यकशिपुर् दोर्भ्यां ब्रह्म-वरेण च ।
वशे स-पालान् लोकांस् त्रीन् अकुतो-मृत्युर् उद्धतः
हिरण्याक्षो ऽनुजस् तस्य प्रियः प्रीति-कृद् अन्वहम् ।
गदा-पाणिर् दिवं यातो युयुत्सुर् मृगयन् रणम्
तं वीक्ष्य दुःसह-जवं रणत्-काञ्चन-नूपुरम् ।
वैजयन्त्या स्रजा जुष्टम् अंस-न्यस्त-महा-गदम्
मनो-वीर्य-वरोत्सिक्तम् असृण्यम् अकुतो-भयम् ।
भीता निलिल्यिरे देवास् तार्क्ष्य-त्रस्ता इवाहयः
स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्य-राट् ।
सेन्द्रान् देव-गणान् क्षीबान् अपश्यन् व्यनदद् भृशम्
ततो निवृत्तः क्रीडिष्यन् गम्भीरं भीम-निस्वनम् ।
विजगाहे महा-सत्त्वो वार्धिं मत्त इव द्विपः
तस्मिन् प्रविष्टे वरुणस्य सैनिका यादो-गणाः सन्न-धियः ससाध्वसाः ।
अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दूरतरं प्रदुद्रुवुः
स वर्ष-पूगान् उदधौ महा-बलश् चरन् महोर्मीञ् छ्वसनेरितान् मुहुः ।
मौर्व्याभिजघ्ने गदया विभावरीम् आसेदिवांस् तात पुरीं प्रचेतसः
तत्रोपलभ्यासुर-लोक-पालकं यादो-गणानाम् ऋषभं प्रचेतसम् ।
स्मयन् प्रलब्धुं प्रणिपत्य नीचवज् जगाद मे देह्य् अधिराज संयुगम्
त्वं लोक-पालो ऽधिपतिर् बृहच्-छ्रवा वीर्यापहो दुर्मद-वीर-मानिनाम् ।
विजित्य लोके ऽखिल-दैत्य-दानवान् यद् राजसूयेन पुरायजत् प्रभो
स एवम् उत्सिक्त-मदेन विद्विषा दृढं प्रलब्धो भगवान् अपां पतिः ।
रोषं समुत्थं शमयन् स्वया धिया व्यवोचद् अङ्गोपशमं गता वयम्
पश्यामि नान्यं पुरुषात् पुरातनाद् यः संयुगे त्वां रण-मार्ग-कोविदम् ।
आराधयिष्यत्य् असुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः
तं वीरम् आराद् अभिपद्य विस्मयः शयिष्यसे वीर-शये श्वभिर् वृतः ।
यस् त्वद्-विधानाम् असतां प्रशान्तये रूपाणि धत्ते सद्-अनुग्रहेच्छया
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0