भागवत पुराण · अध्याय 03.16
0 कुमारा ऊचुः
यो ऽन्तर्हितो हृदि गतो ऽपि दुरात्मनां त्वं $ सो ऽद्यैव नो नयन-मूलम् अनन्त राद्धः &
यो ऽन्तर्हितो हृदि गतो ऽपि दुरात्मनां त्वं $ सो ऽद्यैव नो नयन-मूलम् अनन्त राद्धः &
यर्ह्य् एव कर्ण-विवरेण गुहां गतो नः % पित्रानुवर्णित-रहा भवद्-उद्भवेन ॥ भ्प्_03.15.046* ॥
तं त्वां विदाम भगवन् परम् आत्म-तत्त्वं $ सत्त्वेन सम्प्रति रतिं रचयन्तम् एषाम् &
तं त्वां विदाम भगवन् परम् आत्म-तत्त्वं $ सत्त्वेन सम्प्रति रतिं रचयन्तम् एषाम् &
यत् ते ऽनुताप-विदितैर् दृढ-भक्ति-योगैर् % उद्ग्रन्थयो हृदि विदुर् मुनयो विरागाः ॥ भ्प्_03.15.047* ॥
नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं $ किम्व् अन्यद् अर्पित-भयं भ्रुव उन्नयैस् ते &
नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं $ किम्व् अन्यद् अर्पित-भयं भ्रुव उन्नयैस् ते &
ये ऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः % कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः ॥ भ्प्_03.15.048* ॥
कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच् $ चेतो ऽलिवद् यदि नु ते पदयो रमेत &
कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच् $ चेतो ऽलिवद् यदि नु ते पदयो रमेत &
वाचश् च नस् तुलसिवद् यदि ते ऽङ्घ्रि-शोभाः % पूर्येत ते गुण-गणैर् यदि कर्ण-रन्ध्रः ॥ भ्प्_03.15.049* ॥
प्रादुश्चकर्थ यद् इदं पुरुहूत रूपं $ तेनेश निर्वृतिम् अवापुर् अलं दृशो नः &
प्रादुश्चकर्थ यद् इदं पुरुहूत रूपं $ तेनेश निर्वृतिम् अवापुर् अलं दृशो नः &
तस्मा इदं भगवते नम इद् विधेम % यो ऽनात्मनां दुरुदयो भगवान् प्रतीतः ॥ भ्प्_03.15.050*
0 ब्रह्मोवाच
इति तद् गृणतां तेषां मुनीनां योग-धर्मिणाम् ।
प्रतिनन्द्य जगादेदं विकुण्ठ-निलयो विभुः
भ्प्_03.16.002।0 श्री-भगवान् उवाच
एतौ तौ पार्षदौ मह्यं जयो विजय एव च ।
कदर्थी-कृत्य मां यद् वो बह्व् अक्राताम् अतिक्रमम्
यस् त्व् एतयोर् धृतो दण्डो भवद्भिर् माम् अनुव्रतैः ।
स एवानुमतो ऽस्माभिर् मुनयो देव-हेलनात्
तद् वः प्रसादयाम्य् अद्य ब्रह्म दैवं परं हि मे ।
तद् धीत्य् आत्म-कृतं मन्ये यत् स्व-पुम्भिर् असत्-कृताः
यन्-नामानि च गृह्णाति लोको भृत्ये कृतागसि ।
सो ऽसाधु-वादस् तत्-कीर्तिं हन्ति त्वचम् इवामयः
यस्यामृतामल-यशः-श्रवणावगाहः $ सद्यः पुनाति जगद् आश्वपचाद् विकुण्ठः &अम्प्;
सो ऽहं भवद्भ्य उपलब्ध-सुतीर्थ-कीर्तिश् % छिन्द्यां स्व-बाहुम् अपि वः प्रतिकूल-वृत्तिम् ॥ भ्प्_03.16.006* ॥
यत्-सेवया चरण-पद्म-पवित्र-रेणुं $ सद्यः क्षताखिल-मलं प्रतिलब्ध-शीलम् &
यत्-सेवया चरण-पद्म-पवित्र-रेणुं $ सद्यः क्षताखिल-मलं प्रतिलब्ध-शीलम् &
न श्रीर् विरक्तम् अपि मां विजहाति यस्याः % प्रेक्षा-लवार्थ इतरे नियमान् वहन्ति ॥ भ्प्_03.16.007* ॥
नाहं तथाद्मि यजमान-हविर् विताने $ श्च्योतद्-घृत-प्लुतम् अदन् हुत-भुङ्-मुखेन &
नाहं तथाद्मि यजमान-हविर् विताने $ श्च्योतद्-घृत-प्लुतम् अदन् हुत-भुङ्-मुखेन &
यद् ब्राह्मणस्य मुखतश् चरतो ऽनुघासं % तुष्टस्य मय्य् अवहितैर् निज-कर्म-पाकैः ॥ भ्प्_03.16.008* ॥
येषां बिभर्म्य् अहम् अखण्ड-विकुण्ठ-योग- $ माया-विभूतिर् अमलाङ्घ्रि-रजः किरीटैः &
येषां बिभर्म्य् अहम् अखण्ड-विकुण्ठ-योग- $ माया-विभूतिर् अमलाङ्घ्रि-रजः किरीटैः &
विप्रांस् तु को न विषहेत यद्-अर्हणाम्भः % सद्यः पुनाति सह-चन्द्र-ललाम-लोकान् ॥ भ्प्_03.16.009* ॥
ये मे तनूर् द्विज-वरान् दुहतीर् मदीया $ भूतान्य् अलब्ध-शरणानि च भेद-बुद्ध्या &
ये मे तनूर् द्विज-वरान् दुहतीर् मदीया $ भूतान्य् अलब्ध-शरणानि च भेद-बुद्ध्या &
द्रक्ष्यन्त्य् अघ-क्षत-दृशो ह्य् अहि-मन्यवस् तान् % गृध्रा रुषा मम कुषन्त्य् अधिदण्ड-नेतुः ॥ भ्प्_03.16.010* ॥
ये ब्राह्मणान् मयि धिया क्षिपतो ऽर्चयन्तस् $ तुष्यद्-धृदः स्मित-सुधोक्षित-पद्म-वक्त्राः &
ये ब्राह्मणान् मयि धिया क्षिपतो ऽर्चयन्तस् $ तुष्यद्-धृदः स्मित-सुधोक्षित-पद्म-वक्त्राः &
वाण्यानुराग-कलयात्मजवद् गृणन्तः % सम्बोधयन्त्य् अहम् इवाहम् उपाहृतस् तैः ॥ भ्प्_03.16.011* ॥
तन् मे स्व-भर्तुर् अवसायम् अलक्षमाणौ $ युष्मद्-व्यतिक्रम-गतिं प्रतिपद्य सद्यः &
तन् मे स्व-भर्तुर् अवसायम् अलक्षमाणौ $ युष्मद्-व्यतिक्रम-गतिं प्रतिपद्य सद्यः &
भूयो ममान्तिकम् इतां तद् अनुग्रहो मे % यत् कल्पताम् अचिरतो भृतयोर् विवासः ॥ भ्प्_03.16.012*
0 ब्रह्मोवाच
अथ तस्योशतीं देवीम् ऋषि-कुल्यां सरस्वतीम् ।
नास्वाद्य मन्यु-दष्टानां तेषाम् आत्माप्य् अतृप्यत
सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्व्-अर्थ-गह्वराम् ।
विगाह्यागाध-गम्भीरां न विदुस् तच्-चिकीर्षितम्
ते योग-माययारब्ध- पारमेष्ठ्य-महोदयम् ।
प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभित-त्वचः
भ्प्_03.16.016।0 ऋषय ऊचुः
न वयं भगवन् विद्मस् तव देव चिकीर्षितम् ।
कृतो मे ऽनुग्रहश् चेति यद् अध्यक्षः प्रभाषसे
ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो ।
विप्राणां देव-देवानां भगवान् आत्म-दैवतम्
त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस् तव ।
धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः
तरन्ति ह्य् अञ्जसा मृत्युं निवृत्ता यद्-अनुग्रहात् ।
योगिनः स भवान् किं स्विद् अनुगृह्येत यत् परैः
यं वै विभूतिर् उपयात्य् अनुवेलम् अन्यैर् $ अर्थार्थिभिः स्व-शिरसा धृत-पाद-रेणुः &अम्प्;
धन्यार्पिताङ्घ्रि-तुलसी-नव-दाम-धाम्नो % लोकं मधुव्रत-पतेर् इव काम-याना ॥ भ्प्_03.16.020* ॥
यस् तां विविक्त-चरितैर् अनुवर्तमानां $ नात्याद्रियत् परम-भागवत-प्रसङ्गः &
यस् तां विविक्त-चरितैर् अनुवर्तमानां $ नात्याद्रियत् परम-भागवत-प्रसङ्गः &
स त्वं द्विजानुपथ-पुण्य-रजः-पुनीतः % श्रीवत्स-लक्ष्म किम् अगा भग-भाजनस् त्वम् ॥ भ्प्_03.16.021* ॥
धर्मस्य ते भगवतस् त्रि-युग त्रिभिः स्वैः $ पद्भिश् चराचरम् इदं द्विज-देवतार्थम् &
धर्मस्य ते भगवतस् त्रि-युग त्रिभिः स्वैः $ पद्भिश् चराचरम् इदं द्विज-देवतार्थम् &
नूनं भृतं तद्-अभिघाति रजस् तमश् च % सत्त्वेन नो वरदया तनुवा निरस्य ॥ भ्प्_03.16.022* ॥
न त्वं द्विजोत्तम-कुलं यदि हात्म-गोपं $ गोप्ता वृषः स्वर्हणेन स-सूनृतेन &
न त्वं द्विजोत्तम-कुलं यदि हात्म-गोपं $ गोप्ता वृषः स्वर्हणेन स-सूनृतेन &
तर्ह्य् एव नङ्क्ष्यति शिवस् तव देव पन्था % लोको ऽग्रहीष्यद् ऋषभस्य हि तत् प्रमाणम् ॥ भ्प्_03.16.023* ॥
तत् ते ऽनभीष्टम् इव सत्त्व-निधेर् विधित्सोः $ क्षेमं जनाय निज-शक्तिभिर् उद्धृतारेः &
तत् ते ऽनभीष्टम् इव सत्त्व-निधेर् विधित्सोः $ क्षेमं जनाय निज-शक्तिभिर् उद्धृतारेः &
नैतावता त्र्य्-अधिपतेर् बत विश्व-भर्तुस् % तेजः क्षतं त्व् अवनतस्य स ते विनोदः ॥ भ्प्_03.16.024* ॥
यं वानयोर् दमम् अधीश भवान् विधत्ते $ वृत्तिं नु वा तद् अनुमन्महि निर्व्यलीकम् &
यं वानयोर् दमम् अधीश भवान् विधत्ते $ वृत्तिं नु वा तद् अनुमन्महि निर्व्यलीकम् &
अस्मासु वा य उचितो ध्रियतां स दण्डो % ये ऽनागसौ वयम् अयुङ्क्ष्महि किल्बिषेण ॥ भ्प्_03.16.025*
0 श्री-भगवान् उवाच
एतौ सुरेतर-गतिं प्रतिपद्य सद्यः $ संरम्भ-सम्भृत-समाध्य्-अनुबद्ध-योगौ &
एतौ सुरेतर-गतिं प्रतिपद्य सद्यः $ संरम्भ-सम्भृत-समाध्य्-अनुबद्ध-योगौ &
भूयः सकाशम् उपयास्यत आशु यो वः % शापो मयैव निमितस् तद् अवेत विप्राः ॥ भ्प्_03.16.026*
0 ब्रह्मोवाच
अथ ते मुनयो दृष्ट्वा नयनानन्द-भाजनम् ।
वैकुण्ठं तद्-अधिष्ठानं विकुण्ठं च स्वयं-प्रभम्
भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।
प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम्
भगवान् अनुगाव् आह यातं मा भैष्टम् अस्तु शम् ।
ब्रह्म-तेजः समर्थो ऽपि हन्तुं नेच्छे मतं तु मे
एतत् पुरैव निर्दिष्टं रमया क्रुद्धया यदा ।
पुरापवारिता द्वारि विशन्ती मय्य् उपारते
मयि संरम्भ-योगेन निस्तीर्य ब्रह्म-हेलनम् ।
प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः
द्वाःस्थाव् आदिश्य भगवान् विमान-श्रेणि-भूषणम् ।
सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यम् आविशत्
तौ तु गीर्वाण-ऋषभौ दुस्तराद् धरि-लोकतः ।
हत-श्रियौ ब्रह्म-शापाद् अभूतां विगत-स्मयौ
तदा विकुण्ठ-धिषणात् तयोर् निपतमानयोः ।
हाहा-कारो महान् आसीद् विमानाग्र्येषु पुत्रकाः
ताव् एव ह्य् अधुना प्राप्तौ पार्षद-प्रवरौ हरेः ।
दितेर् जठर-निर्विष्टं काश्यपं तेज उल्बणम्
तयोर् असुरयोर् अद्य तेजसा यमयोर् हि वः ।
आक्षिप्तं तेज एतर्हि भगवांस् तद् विधित्सति
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0