भागवत पुराण · अध्याय 03.06
भ्प्_03.06.001।0 ऋषिर् उवाच
इति तासां स्व-शक्तीनां सतीनाम् असमेत्य सः ।
प्रसुप्त-लोक-तन्त्राणां निशाम्य गतिम् ईश्वरः
काल-सञ्ज्ञां तदा देवीं बिभ्रच्-छक्तिम् उरुक्रमः ।
त्रयोविंशति तत्त्वानां गणं युगपद् आविशत्
सो ऽनुप्रविष्टो भगवांश् चेष्टारूपेण तं गणम् ।
भिन्नं संयोजयाम् आस सुप्तं कर्म प्रबोधयन्
प्रबुद्ध-कर्म दैवेन त्रयोविंशतिको गणः ।
प्रेरितो ऽजनयत् स्वाभिर् मात्राभिर् अधिपूरुषम्
परेण विशता स्वस्मिन् मात्रया विश्व-सृग्-गणः ।
चुक्षोभान्योन्यम् आसाद्य यस्मिन् लोकाश् चराचराः
हिरण्मयः स पुरुषः सहस्र-परिवत्सरान् ।
आण्ड-कोश उवासाप्सु सर्व-सत्त्वोपबृंहितः
स वै विश्व-सृजां गर्भो देव-कर्मात्म-शक्तिमान् ।
विबभाजात्मनात्मानम् एकधा दशधा त्रिधा
एष ह्य् अशेष-सत्त्वानाम् आत्मांशः परमात्मनः ।
आद्यो ऽवतारो यत्रासौ भूत-ग्रामो विभाव्यते
साध्यात्मः साधिदैवश् च साधिभूत इति त्रिधा ।
विराट् प्राणो दश-विध एकधा हृदयेन च
स्मरन् विश्व-सृजाम् ईशो विज्ञापितम् अधोक्षजः ।
विराजम् अतपत् स्वेन तेजसैषां विवृत्तये
अथ तस्याभितप्तस्य कतिधायतनानि ह ।
निरभिद्यन्त देवानां तानि मे गदतः शृणु
तस्याग्निर् आस्यं निर्भिन्नं लोक-पालो ऽविशत् पदम् ।
वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते
निर्भिन्नं तालु वरुणो लोक-पालो ऽविशद् धरेः ।
जिह्वयांशेन च रसं ययासौ प्रतिपद्यते
निर्भिन्ने अश्विनौ नासे विष्णोर् आविशतां पदम् ।
घ्राणेनांशेन गन्धस्य प्रतिपत्तिर् यतो भवेत्
निर्भिन्ने अक्षिणी त्वष्टा लोक-पालो ऽविशद् विभोः ।
चक्षुषांशेन रूपाणां प्रतिपत्तिर् यतो भवेत्
निर्भिन्नान्य् अस्य चर्माणि लोक-पालो ऽनिलो ऽविशत् ।
प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते
कर्णाव् अस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर् दिशः ।
श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते
त्वचम् अस्य विनिर्भिन्नां विविशुर् धिष्ण्यम् ओषधीः ।
अंशेन रोमभिः कण्डूं यैर् असौ प्रतिपद्यते
मेढ्रं तस्य विनिर्भिन्नं स्व-धिष्ण्यं क उपाविशत् ।
रेतसांशेन येनासाव् आनन्दं प्रतिपद्यते
गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् ।
पायुनांशेन येनासौ विसर्गं प्रतिपद्यते
हस्ताव् अस्य विनिर्भिन्नाव् इन्द्रः स्वर्-पतिर् आविशत् ।
वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते
पादाव् अस्य विनिर्भिन्नौ लोकेशो विष्णुर् आविशत् ।
गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते
बुद्धिं चास्य विनिर्भिन्नां वाग्-ईशो धिष्ण्यम् आविशत् ।
बोधेनांशेन बोद्धव्यम् प्रतिपत्तिर् यतो भवेत्
हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यम् आविशत् ।
मनसांशेन येनासौ विक्रियां प्रतिपद्यते
आत्मानं चास्य निर्भिन्नम् अभिमानो ऽविशत् पदम् ।
कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते
सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यम् उपाविशत् ।
चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते
शीर्ष्णो ऽस्य द्यौर् धरा पद्भ्यां खं नाभेर् उदपद्यत ।
गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः
आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे ।
धरां रजः-स्वभावेन पणयो ये च तान् अनु
तार्तीयेन स्वभावेन भगवन्-नाभिम् आश्रिताः ।
उभयोर् अन्तरं व्योम ये रुद्र-पार्षदां गणाः
मुखतो ऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह ।
यस् तून्मुखत्वाद् वर्णानां मुख्यो ऽभूद् ब्राह्मणो गुरुः
बाहुभ्यो ऽवर्तत क्षत्रं क्षत्रियस् तद् अनुव्रतः ।
यो जातस् त्रायते वर्णान् पौरुषः कण्टक-क्षतात्
विशो ऽवर्तन्त तस्योर्वोर् लोक-वृत्तिकरीर् विभोः ।
वैश्यस् तद्-उद्भवो वार्तां नृणां यः समवर्तयत्
पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्म-सिद्धये ।
तस्यां जातः पुरा शूद्रो यद्-वृत्त्या तुष्यते हरिः
एते वर्णाः स्व-धर्मेण यजन्ति स्व-गुरुं हरिम् ।
श्रद्धयात्म-विशुद्ध्य्-अर्थं यज्-जाताः सह वृत्तिभिः
एतत् क्षत्तर् भगवतो दैव-कर्मात्म-रूपिणः ।
कः श्रद्दध्याद् उपाकर्तुं योगमाया-बलोदयम्
तथापि कीर्तयाम्य् अङ्ग यथा-मति यथा-श्रुतम् ।
कीर्तिं हरेः स्वां सत्-कर्तुं गिरम् अन्याभिधासतीम्
एकान्त-लाभं वचसो नु पुंसां सुश्लोक-मौलेर् गुण-वादम् आहुः ।
श्रुतेश् च विद्वद्भिर् उपाकृतायां कथा-सुधायाम् उपसम्प्रयोगम्
आत्मनो ऽवसितो वत्स महिमा कविनादिना ।
संवत्सर-सहस्रान्ते धिया योग-विपक्कया
अतो भगवतो माया मायिनाम् अपि मोहिनी ।
यत् स्वयं चात्म-वर्त्मात्मा न वेद किम् उतापरे
यतो ऽप्राप्य न्यवर्तन्त वाचश् च मनसा सह ।
अहं चान्य इमे देवास् तस्मै भगवते नमः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0