भागवत पुराण · अध्याय 03.05
भ्प्_03.05.001।0 श्री-शुक उवाच
द्वारि द्यु-नद्या ऋषभः कुरूणां मैत्रेयम् आसीनम् अगाध-बोधम् ।
क्षत्तोपसृत्याच्युत-भाव-सिद्धः पप्रच्छ सौशील्य-गुणाभितृप्तः
भ्प्_03.05.002।0 विदुर उवाच
सुखाय कर्माणि करोति लोको न तैः सुखं वान्यद्-उपारमं वा ।
विन्देत भूयस् तत एव दुःखं यद् अत्र युक्तं भगवान् वदेन् नः
जनस्य कृष्णाद् विमुखस्य दैवाद् अधर्म-शीलस्य सुदुःखितस्य ।
अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य
तत् साधु-वर्यादिश वर्त्म शं नः संराधितो भगवान् येन पुंसाम् ।
हृदि स्थितो यच्छति भक्ति-पूते ज्ञानं स-तत्त्वाधिगमं पुराणम्
करोति कर्माणि कृतावतारो यान्य् आत्म-तन्त्रो भगवांस् त्र्यधीशः ।
यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्तिं जगतो विधत्ते
यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स निवृत्त-वृत्तिः ।
योगेश्वराधीश्वर एक एतद् अनुप्रविष्टो बहुधा यथासीत्
क्रीडन् विधत्ते द्विज-गो-सुराणां क्षेमाय कर्माण्य् अवतार-भेदैः ।
मनो न तृप्यत्य् अपि शृण्वतां नः सुश्लोक-मौलेश् चरितामृतानि
यैस् तत्त्व-भेदैर् अधिलोक-नाथो लोकान् अलोकान् सह लोकपालान् ।
अचीकॢपद् यत्र हि सर्व-सत्त्व- निकाय-भेदो ऽधिकृतः प्रतीतः
येन प्रजानाम् उत आत्म-कर्म- रूपाभिधानां च भिदां व्यधत्त ।
नारायणो विश्वसृग् आत्म-योनिर् एतच् च नो वर्णय विप्र-वर्य
परावरेषां भगवन् व्रतानि श्रुतानि मे व्यास-मुखाद् अभीक्ष्णम् ।
अतृप्नुम क्षुल्ल-सुखावहानां तेषाम् ऋते कृष्ण-कथामृतौघात्
कस् तृप्नुयात् तीर्थ-पदो ऽभिधानात् सत्रेषु वः सूरिभिर् ईड्यमानात् ।
यः कर्ण-नाडीं पुरुषस्य यातो भव-प्रदां गेह-रतिं छिनत्ति
मुनिर् विवक्षुर् भगवद्-गुणानां सखापि ते भारतम् आह कृष्णः ।
यस्मिन् नृणां ग्राम्य-सुखानुवादैर् मतिर् गृहीता नु हरेः कथायाम्
सा श्रद्दधानस्य विवर्धमाना विरक्तिम् अन्यत्र करोति पुंसः ।
हरेः पदानुस्मृति-निर्वृतस्य समस्त-दुःखाप्ययम् आशु धत्ते
ताञ् छोच्य-शोच्यान् अविदो ऽनुशोचे हरेः कथायां विमुखान् अघेन ।
क्षिणोति देवो ऽनिमिषस् तु येषाम् आयुर् वृथा-वाद-गति-स्मृतीनाम्
तद् अस्य कौषारव शर्म-दातुर् हरेः कथाम् एव कथासु सारम् ।
उद्धृत्य पुष्पेभ्य इवार्त-बन्धो शिवाय नः कीर्तय तीर्थ-कीर्तेः
स विश्व-जन्म-स्थिति-संयमार्थे कृतावतारः प्रगृहीत-शक्तिः ।
चकार कर्माण्य् अतिपूरुषाणि यानीश्वरः कीर्तय तानि मह्यम्
भ्प्_03.05.017।0 श्री-शुक उवाच
स एवं भगवान् पृष्टः क्षत्त्रा कौषारवो मुनिः ।
पुंसां निःश्रेयसार्थेन तम् आह बहु-मानयन्
भ्प्_03.05.018।0 मैत्रेय उवाच
साधु पृष्टं त्वया साधो लोकान् साध्व् अनुगृह्णता ।
कीर्तिं वितन्वता लोके आत्मनो ऽधोक्षजात्मनः
नैतच् चित्रं त्वयि क्षत्तर् बादरायण-वीर्यजे ।
गृहीतो ऽनन्य-भावेन यत् त्वया हरिर् ईश्वरः
माण्डव्य-शापाद् भगवान् प्रजा-संयमनो यमः ।
भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवती-सुतात्
भवान् भगवतो नित्यं सम्मतः सानुगस्य ह ।
यस्य ज्ञानोपदेशाय मादिशद् भगवान् व्रजन्
अथ ते भगवल्-लीला योग-मायोरुबृंहिताः ।
विश्व-स्थित्य्-उद्भवान्तार्था वर्णयाम्य् अनुपूर्वशः
भगवान् एक आसेदम् अग्र आत्मात्मनां विभुः ।
आत्मेच्छानुगताव् आत्मा नाना-मत्य्-उपलक्षणः
स वा एष तदा द्रष्टा नापश्यद् दृश्यम् एकराट् ।
मेने ऽसन्तम् इवात्मानं सुप्त-शक्तिर् असुप्त-दृक्
सा वा एतस्य संद्रष्टुः शक्तिः सद्-असद्-आत्मिका ।
माया नाम महा-भाग ययेदं निर्ममे विभुः
काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः ।
पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान्
ततो ऽभवन् महत्-तत्त्वम् अव्यक्तात् काल-चोदितात् ।
विज्ञानात्मात्म-देह-स्थं विश्वं व्यञ्जंस् तमो-नुदः
सो ऽप्य् अंश-गुण-कालात्मा भगवद्-दृष्टि-गोचरः ।
आत्मानं व्यकरोद् आत्मा विश्वस्यास्य सिसृक्षया
महत्-तत्त्वाद् विकुर्वाणाद् अहं-तत्त्वं व्यजायत ।
कार्य-कारण-कर्त्रात्मा भूतेन्द्रिय-मनो-मयः
वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा ।
अहं-तत्त्वाद् विकुर्वाणान् मनो वैकारिकाद् अभूत् ।
वैकारिकाश् च ये देवा अर्थाभिव्यञ्जनं यतः
तैजसानीन्द्रियाण्य् एव ज्ञान-कर्म-मयानि च ।
तामसो भूत-सूक्ष्मादिर् यतः खं लिङ्गम् आत्मनः
काल-मायांश-योगेन भगवद्-वीक्षितं नभः ।
नभसो ऽनुसृतं स्पर्शं विकुर्वन् निर्ममे ऽनिलम्
अनिलो ऽपि विकुर्वाणो नभसोरु-बलान्वितः ।
ससर्ज रूप-तन्मात्रं ज्योतिर् लोकस्य लोचनम्
अनिलेनान्वितं ज्योतिर् विकुर्वत् परवीक्षितम् ।
आधत्ताम्भो रस-मयं काल-मायांश-योगतः
ज्योतिषाम्भो ऽनुसंसृष्टं विकुर्वद् ब्रह्म-वीक्षितम् ।
महीं गन्ध-गुणाम् आधात् काल-मायांश-योगतः
भूतानां नभ-आदीनां यद् यद् भव्यावरावरम् ।
तेषां परानुसंसर्गाद् यथा सङ्ख्यं गुणान् विदुः
एते देवाः कला विष्णोः काल-मायांश-लिङ्गिनः ।
नानात्वात् स्व-क्रियानीशाः प्रोचुः प्राञ्जलयो विभुम्
भ्प्_03.05.038।0 देवा ऊचुः
नमाम ते देव पदारविन्दं प्रपन्न-तापोपशमातपत्रम् ।
यन्-मूल-केता यतयो ऽञ्जसोरु- संसार-दुःखं बहिर् उत्क्षिपन्ति
धातर् यद् अस्मिन् भव ईश जीवास् ताप-त्रयेणाभिहता न शर्म ।
आत्मन् लभन्ते भगवंस् तवाङ्घ्रि- च्छायां स-विद्याम् अत आश्रयेम
मार्गन्ति यत् ते मुख-पद्म-नीडैश् छन्दः-सुपर्णैर् ऋषयो विविक्ते ।
यस्याघ-मर्षोद-सरिद्-वरायाः पदं पदं तीर्थ-पदः प्रपन्नाः
यच् छ्रद्धया श्रुतवत्या च भक्त्या सम्मृज्यमाने हृदये ऽवधाय ।
ज्ञानेन वैराग्य-बलेन धीरा व्रजेम तत् ते ऽङ्घ्रि-सरोज-पीठम्
विश्वस्य जन्म-स्थिति-संयमार्थे कृतावतारस्य पदाम्बुजं ते ।
व्रजेम सर्वे शरणं यद् ईश स्मृतं प्रयच्छत्य् अभयं स्व-पुंसाम्
यत् सानुबन्धे ऽसति देह-गेहे ममाहम् इत्य् ऊढ-दुराग्रहाणाम् ।
पुंसां सुदूरं वसतो ऽपि पुर्यां भजेम तत् ते भगवन् पदाब्जम्
तान् वै ह्य् असद्-वृत्तिभिर् अक्षिभिर् ये पराहृतान्तर्-मनसः परेश ।
अथो न पश्यन्त्य् उरुगाय नूनं ये ते पदन्यास-विलास-लक्ष्याः
पानेन ते देव कथा-सुधायाः प्रवृद्ध-भक्त्या विशदाशया ये ।
वैराग्य-सारं प्रतिलभ्य बोधं यथाञ्जसान्वीयुर् अकुण्ठ-धिष्ण्यम्
तथापरे चात्म-समाधि-योग- बलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वाम् एव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान् न तु सेवया ते
तत् ते वयं लोक-सिसृक्षयाद्य त्वयानुसृष्टास् त्रिभिर् आत्मभिः स्म ।
सर्वे वियुक्ताः स्व-विहार-तन्त्रं न शक्नुमस् तत् प्रतिहर्तवे ते
यावद् बलिं ते ऽज हराम काले यथा वयं चान्नम् अदाम यत्र ।
यथोभयेषां त इमे हि लोका बलिं हरन्तो ऽन्नम् अदन्त्य् अनूहाः
त्वं नः सुराणाम् असि सान्वयानां कूट-स्थ आद्यः पुरुषः पुराणः ।
त्वं देव शक्त्यां गुण-कर्म-योनौ रेतस् त्व् अजायां कविम् आदधे ऽजः
ततो वयं मत्-प्रमुखा यद्-अर्थे बभूविमात्मन् करवाम किं ते ।
त्वं नः स्व-चक्षुः परिदेहि शक्त्या देव क्रियार्थे यद्-अनुग्रहाणाम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0