भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.04

03.04.001

भ्प्_03.04.001।0 उद्धव उवाच
अथ ते तद्-अनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् ।
तया विभ्रंशित-ज्ञाना दुरुक्तैर् मर्म पस्पृशुः

03.04.002

तेषां मैरेय-दोषेण विषमीकृत-चेतसाम् ।
निम्लोचति रवाव् आसीद् वेणूनाम् इव मर्दनम्

03.04.003

भगवान् स्वात्म-मायाया गतिं ताम् अवलोक्य सः ।
सरस्वतीम् उपस्पृश्य वृक्ष-मूलम् उपाविशत्

03.04.004

अहं चोक्तो भगवता प्रपन्नार्ति-हरेण ह ।
बदरीं त्वं प्रयाहीति स्व-कुलं सञ्जिहीर्षुणा

03.04.005

तथापि तद्-अभिप्रेतं जानन्न् अहम् अरिन्दम ।
पृष्ठतो ऽन्वगमं भर्तुः पाद-विश्लेषणाक्षमः

03.04.006

अद्राक्षम् एकम् आसीनं विचिन्वन् दयितं पतिम् ।
श्री-निकेतं सरस्वत्यां कृत-केतम् अकेतनम्

03.04.007

श्यामावदातं विरजं प्रशान्तारुण-लोचनम् ।
दोर्भिश् चतुर्भिर् विदितं पीत-कौशाम्बरेण च

03.04.008

वाम ऊराव् अधिश्रित्य दक्षिणाङ्घ्रि-सरोरुहम् ।
अपाश्रितार्भकाश्वत्थम् अकृशं त्यक्त-पिप्पलम्

03.04.009

तस्मिन् महा-भागवतो द्वैपायन-सुहृत्-सखा ।
लोकान् अनुचरन् सिद्ध आससाद यदृच्छया

03.04.010

तस्यानुरक्तस्य मुनेर् मुकुन्दः प्रमोद-भावानत-कन्धरस्य ।
आशृण्वतो माम् अनुराग-हास- समीक्षया विश्रमयन्न् उवाच

03.04.011

भ्प्_03.04.011।0 श्री-भगवान् उवाच
वेदाहम् अन्तर् मनसीप्सितं ते ददामि यत् तद् दुरवापम् अन्यैः ।
सत्रे पुरा विश्व-सृजां वसूनां मत्-सिद्धि-कामेन वसो त्वयेष्टः

03.04.012

स एष साधो चरमो भवानाम् आसादितस् ते मद्-अनुग्रहो यत् ।
यन् मां नृलोकान् रह उत्सृजन्तं दिष्ट्या ददृश्वान् विशदानुवृत्त्या

03.04.013

पुरा मया प्रोक्तम् अजाय नाभ्ये पद्मे निषण्णाय ममादि-सर्गे ।
ज्ञानं परं मन्-महिमावभासं यत् सूरयो भागवतं वदन्ति

03.04.014

इत्य् आदृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रह-भाजनो ऽहम् ।
स्नेहोत्थ-रोमा स्खलिताक्षरस् तं मुञ्चञ् छुचः प्राञ्जलिर् आबभाषे

03.04.015

को न्व् ईश ते पाद-सरोज-भाजां सुदुर्लभो ऽर्थेषु चतुर्ष्व् अपीह ।
तथापि नाहं प्रवृणोमि भूमन् भवत्-पदाम्भोज-निषेवणोत्सुकः

03.04.016

कर्माण्य् अनीहस्य भवो ऽभवस्य ते दुर्गाश्रयो ऽथारि-भयात् पलायनम् ।
कालात्मनो यत् प्रमदा-युताश्रमः स्वात्मन्-रतेः खिद्यति धीर् विदाम् इह

03.04.017

मन्त्रेषु मां वा उपहूय यत् त्वम् अकुण्ठिताखण्ड-सदात्म-बोधः ।
पृच्छेः प्रभो मुग्ध इवाप्रमत्तस् तन् नो मनो मोहयतीव देव

03.04.018

ज्ञानं परं स्वात्म-रहः-प्रकाशं प्रोवाच कस्मै भगवान् समग्रम् ।
अपि क्षमं नो ग्रहणाय भर्तर् वदाञ्जसा यद् वृजिनं तरेम

03.04.019

इत्य् आवेदित-हार्दाय मह्यं स भगवान् परः ।
आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम्

03.04.020

स एवम् आराधित-पाद-तीर्थाद् अधीत-तत्त्वात्म-विबोध-मार्गः ।
प्रणम्य पादौ परिवृत्य देवम् इहागतो ऽहं विरहातुरात्मा

03.04.021

सो ऽहं तद्-दर्शनाह्लाद- वियोगार्ति-युतः प्रभो ।
गमिष्ये दयितं तस्य बदर्याश्रम-मण्डलम्

03.04.022

यत्र नारायणो देवो नरश् च भगवान् ऋषिः ।
मृदु तीव्रं तपो दीर्घं तेपाते लोक-भावनौ

03.04.023

भ्प्_03.04.023।0 श्री-शुक उवाच
इत्य् उद्धवाद् उपाकर्ण्य सुहृदां दुःसहं वधम् ।
ज्ञानेनाशमयत् क्षत्ता शोकम् उत्पतितं बुधः

03.04.024

स तं महा-भागवतं व्रजन्तं कौरवर्षभः ।
विश्रम्भाद् अभ्यधत्तेदं मुख्यं कृष्ण-परिग्रहे

03.04.025

भ्प्_03.04.025।0 विदुर उवाच
ज्ञानं परं स्वात्म-रहः-प्रकाशं यद् आह योगेश्वर ईश्वरस् ते ।
वक्तुं भवान् नो ऽर्हति यद् धि विष्णोर् भृत्याः स्व-भृत्यार्थ-कृतश् चरन्ति

03.04.026

भ्प्_03.04.026।0 उद्धव उवाच
ननु ते तत्त्व-संराध्य ऋषिः कौषारवो ऽन्तिके ।
साक्षाद् भगवतादिष्टो मर्त्य-लोकं जिहासता

03.04.027

भ्प्_03.04.027।0 श्री-शुक उवाच
इति सह विदुरेण विश्व-मूर्तेर् गुण-कथया सुधया प्लावितोरुतापः ।
क्षणम् इव पुलिने यमस्वसुस् तां समुषित औपगविर् निशां ततो ऽगात्

03.04.028

भ्प्_03.04.028।0 राजोवाच
निधनम् उपगतेषु वृष्णि-भोजेष्व् अधिरथ-यूथप-यूथपेषु मुख्यः ।
स तु कथम् अवशिष्ट उद्धवो यद् धरिर् अपि तत्यज आकृतिं त्र्यधीशः

03.04.029

भ्प्_03.04.029।0 श्री-शुक उवाच
ब्रह्म-शापापदेशेन कालेनामोघ-वाञ्छितः ।
संहृत्य स्व-कुलं स्फीतं त्यक्ष्यन् देहम् अचिन्तयत्

03.04.030

अस्माल् लोकाद् उपरते मयि ज्ञानं मद्-आश्रयम् ।
अर्हत्य् उद्धव एवाद्धा सम्प्रत्य् आत्मवतां वरः

03.04.031

नोद्धवो ऽण्व् अपि मन्-न्यूनो यद् गुणैर् नार्दितः प्रभुः ।
अतो मद्-वयुनं लोकं ग्राहयन्न् इह तिष्ठतु

03.04.032

एवं त्रि-लोक-गुरुणा सन्दिष्टः शब्द-योनिना ।
बदर्याश्रमम् आसाद्य हरिम् ईजे समाधिना

03.04.033

विदुरो ऽप्य् उद्धवाच् छ्रुत्वा कृष्णस्य परमात्मनः ।
क्रीडयोपात्त-देहस्य कर्माणि श्लाघितानि च

03.04.034

देह-न्यासं च तस्यैवं धीराणां धैर्य-वर्धनम् ।
अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम्

03.04.035

आत्मानं च कुरु-श्रेष्ठ कृष्णेन मनसेक्षितम् ।
ध्यायन् गते भागवते रुरोद प्रेम-विह्वलः

03.04.036

कालिन्द्याः कतिभिः सिद्ध अहोभिर् भरतर्षभ ।
प्रापद्यत स्वः-सरितं यत्र मित्रा-सुतो मुनिः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc