भागवत पुराण · अध्याय 03.03
भ्प्_03.03.001।0 उद्धव उवाच
ततः स आगत्य पुरं स्व-पित्रोश् चिकीर्षया शं बलदेव-संयुतः ।
निपात्य तुङ्गाद् रिपु-यूथ-नाथं हतं व्यकर्षद् व्यसुम् ओजसोर्व्याम्
सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य स-विस्तरम् ।
तस्मै प्रादाद् वरं पुत्रं मृतं पञ्च-जनोदरात्
समाहुता भीष्मक-कन्यया ये श्रियः सवर्णेन बुभूषयैषाम् ।
गान्धर्व-वृत्त्या मिषतां स्व-भागं जह्रे पदं मूर्ध्नि दधत् सुपर्णः
ककुद्मिनो ऽविद्ध-नसो दमित्वा स्वयंवरे नाग्नजितीम् उवाह ।
तद्-भग्नमानान् अपि गृध्यतो ऽज्ञाञ् जघ्ने ऽक्षतः शस्त्र-भृतः स्व-शस्त्रैः
प्रियं प्रभुर् ग्राम्य इव प्रियाया विधित्सुर् आर्च्छद् द्युतरुं यद्-अर्थे ।
वज्र्य् आद्रवत् तं स-गणो रुषान्धः क्रीडा-मृगो नूनम् अयं वधूनाम्
सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्या ।
आमन्त्रितस् तत्-तनयाय शेषं दत्त्वा तद्-अन्तः-पुरम् आविवेश
तत्राहृतास् ता नर-देव-कन्याः कुजेन दृष्ट्वा हरिम् आर्त-बन्धुम् ।
उत्थाय सद्यो जगृहुः प्रहर्ष- व्रीडानुराग-प्रहितावलोकैः
आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम् ।
स-विधं जगृहे पाणीन् अनुरूपः स्व-मायया
तास्व् अपत्यान्य् अजनयद् आत्म-तुल्यानि सर्वतः ।
एकैकस्यां दश दश प्रकृतेर् विबुभूषया
काल-मागध-शाल्वादीन् अनीकै रुन्धतः पुरम् ।
अजीघनत् स्वयं दिव्यं स्व-पुंसां तेज आदिशत्
शम्बरं द्विविदं बाणं मुरं बल्वलम् एव च ।
अन्यांश् च दन्तवक्रादीन् अवधीत् कांश् च घातयत्
अथ ते भ्रातृ-पुत्राणां पक्षयोः पतितान् नृपान् ।
चचाल भूः कुरुक्षेत्रं येषाम् आपततां बलैः
स कर्ण-दुःशासन-सौबलानां कुमन्त्र-पाकेन हत-श्रियायुषम् ।
सुयोधनं सानुचरं शयानं भग्नोरुम् ऊर्व्यां न ननन्द पश्यन्
कियान् भुवो ऽयं क्षपितोरु-भारो यद् द्रोण-भीष्मार्जुन-भीम-मूलैः ।
अष्टादशाक्षौहिणिको मद्-अंशैर् आस्ते बलं दुर्विषहं यदूनाम्
मिथो यदैषां भविता विवादो मध्व्-आमदाताम्र-विलोचनानाम् ।
नैषां वधोपाय इयान् अतो ऽन्यो मय्य् उद्यते ऽन्तर्दधते स्वयं स्म
एवं सञ्चिन्त्य भगवान् स्व-राज्ये स्थाप्य धर्मजम् ।
नन्दयाम् आस सुहृदः साधूनां वर्त्म दर्शयन्
उत्तरायां धृतः पूरोर् वंशः साध्व्-अभिमन्युना ।
स वै द्रौण्य्-अस्त्र-सम्प्लुष्टः पुनर् भगवता धृतः
अयाजयद् धर्म-सुतम् अश्वमेधैस् त्रिभिर् विभुः ।
सो ऽपि क्ष्माम् अनुजै रक्षन् रेमे कृष्णम् अनुव्रतः
भगवान् अपि विश्वात्मा लोक-वेद-पथानुगः ।
कामान् सिषेवे द्वार्वत्याम् असक्तः साङ्ख्यम् आस्थितः
स्निग्ध-स्मितावलोकेन वाचा पीयूष-कल्पया ।
चरित्रेणानवद्येन श्री-निकेतेन चात्मना
इमं लोकम् अमुं चैव रमयन् सुतरां यदून् ।
रेमे क्षणदया दत्त- क्षण-स्त्री-क्षण-सौहृदः
तस्यैवं रममाणस्य संवत्सर-गणान् बहून् ।
गृहमेधेषु योगेषु विरागः समजायत
दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् ।
को विश्रम्भेत योगेन योगेश्वरम् अनुव्रतः
पुर्यां कदाचित् क्रीडद्भिर् यदु-भोज-कुमारकैः ।
कोपिता मुनयः शेपुर् भगवन्-मत-कोविदाः
ततः कतिपयैर् मासैर् वृष्णि-भोजान्धकादयः ।
ययुः प्रभासं संहृष्टा रथैर् देव-विमोहिताः
तत्र स्नात्वा पित्-न् देवान् ऋषींश् चैव तद्-अम्भसा ।
तर्पयित्वाथ विप्रेभ्यो गावो बहु-गुणा ददुः
हिरण्यं रजतं शय्यां वासांस्य् अजिन-कम्बलान् ।
यानं रथान् इभान् कन्या धरां वृत्ति-करीम् अपि
अन्नं चोरु-रसं तेभ्यो दत्त्वा भगवद्-अर्पणम् ।
गो-विप्रार्थासवः शूराः प्रणेमुर् भुवि मूर्धभिः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0