भागवत पुराण · अध्याय 02.08
भ्प्_02.08.001।0 राजोवाच
ब्रह्मणा चोदितो ब्रह्मन् गुणाख्याने ऽगुणस्य च ।
यस्मै यस्मै यथा प्राह नारदो देवदर्शनः
एतद्वेदितुम् इच्छामि तत्त्वं तत्त्वविदां वर ।
हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः
कथयस्व महाभाग यथाहम् अखिलात्मनि ।
कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम्
शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् ।
कालेन नातिदीर्घेण भगवान् विशते हृदि
प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् ।
धुनोति शमलं कृष्णः सलिलस्य यथा शरत्
धौतात्मा पुरुषः कृष्ण पादमूलं न मुञ्चति ।
मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा
यदधातुमतो ब्रह्मन् देहारम्भो ऽस्य धातुभिः ।
यदृच्छया हेतुना वा भवन्तो जानते यथा
आसीद्यदुदरात् पद्मं लोकसंस्थानलक्षणम् ।
यावान् अयं वै पुरुष इयत्तावयवैः पृथक् ।
तावान् असाविति प्रोक्तः संस्थावयववान् इव
अजः सृजति भूतानि भूतात्मा यदनुग्रहात् ।
ददृशे येन तद्रूपं नाभिपद्मसमुद्भवः
स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः ।
मुक्त्वात्ममायां मायेशः शेते सर्वगुहाशयः
पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः ।
लोकैरमुष्यावयवाः सपालैरिति शुश्रुम
यावान् कल्पो विकल्पो वा यथा कालो ऽनुमीयते ।
भूतभव्यभवच्छब्द आयुर्मानं च यत् सतः
कालस्यानुगतिर्या तु लक्ष्यते ऽण्वी बृहत्यपि ।
यावत्यः कर्मगतयो यादृशीर्द्विजसत्तम
यस्मिन् कर्मसमावायो यथा येनोपगृह्यते ।
गुणानां गुणिनां चैव परिणामम् अभीप्सताम्
भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम् ।
सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम्
प्रमाणम् अण्डकोशस्य बाह्याभ्यन्तरभेदतः ।
महतां चानुचरितं वर्णाश्रमविनिश्चयः
युगानि युगमानं च धर्मो यश्च युगे युगे ।
अवतारानुचरितं यदाश्चर्यतमं हरेः
नृणां साधारणो धर्मः सविशेषश्च यादृशः ।
श्रेणीनां राजर्षीणां च धर्मः कृच्छ्रेषु जीवताम्
तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् ।
पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च
योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तु योगिनाम् ।
वेदोपवेदधर्माणाम् इतिहासपुराणयोः
सम्प्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः ।
इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः
यो वानुशायिनां सर्गः पाषण्डस्य च सम्भवः ।
आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः
यथात्मतन्त्रो भगवान् विक्रीडत्यात्ममायया ।
विसृज्य वा यथा मायाम् उदास्ते साक्षिवद्विभुः
सर्वम् एतच् च भगवन् पृच्छतो मे ऽनुपूर्वशः ।
तत्त्वतो ऽर्हस्युदाहर्तुं प्रपन्नाय महामुने
अत्र प्रमाणं हि भवान् परमेष्ठी यथात्मभूः ।
अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम्
न मे ऽसवः परायन्ति ब्रह्मन्न् अनशनादमी ।
पिबतो ञ्च्युतपीयूषम् तद्वाक्याब्धिविनिःसृतम्
भ्प्_02.08.027।0 सूत उवाच
स उपामन्त्रितो राज्ञा कथायाम् इति सत्पतेः ।
ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि
प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते
यद्यत् परीक्षिदृषभः पाण्डूनाम् अनुपृच्छति ।
आनुपूर्व्येण तत् सर्वम् आख्यातुम् उपचक्रमे
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0