भागवत पुराण · अध्याय 02.07
भ्प्_02.07.001।0 ब्रह्मोवाच
यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् $ क्रौडीं तनुं सकलयज्ञमयीम् अनन्तः &
यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् $ क्रौडीं तनुं सकलयज्ञमयीम् अनन्तः &
अन्तर्महार्णव उपागतम् आदिदैत्यं % तं दंष्ट्रयाद्रिम् इव वज्रधरो ददार ॥ भ्प्_02.07.001* ॥
जातो रुचेरजनयत् सुयमान् सुयज्ञ $ आकूतिसूनुरमरान् अथ दक्षिणायाम् &
जातो रुचेरजनयत् सुयमान् सुयज्ञ $ आकूतिसूनुरमरान् अथ दक्षिणायाम् &
लोकत्रयस्य महतीम् अहरद्यदार्तिं % स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥ भ्प्_02.07.002* ॥
जज्ञे च कर्दमगृहे द्विज देवहूत्यां $ स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे &
जज्ञे च कर्दमगृहे द्विज देवहूत्यां $ स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे &
ऊचे ययात्मशमलं गुणसङ्गपङ्कम् % अस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥ भ्प्_02.07.003* ॥
अत्रेरपत्यम् अभिकाङ्क्षत आह तुष्टो $ दत्तो मयाहम् इति यद्भगवान् स दत्तः &
अत्रेरपत्यम् अभिकाङ्क्षत आह तुष्टो $ दत्तो मयाहम् इति यद्भगवान् स दत्तः &
यत्पादपङ्कजपरागपवित्रदेहा % योगर्द्धिम् आपुरुभयीं यदुहैहयाद्याः ॥ भ्प्_02.07.004* ॥
तप्तं तपो विविधलोकसिसृक्षया मे $ आदौ सनात् स्वतपसः स चतुःसनो ऽभूत् &
तप्तं तपो विविधलोकसिसृक्षया मे $ आदौ सनात् स्वतपसः स चतुःसनो ऽभूत् &
प्राक्कल्पसम्प्लवविनष्टम् इहात्मतत्त्वं % सम्यग् जगाद मुनयो यदचक्षतात्मन् ॥ भ्प्_02.07.005* ॥
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां $ नारायणो नर इति स्वतपःप्रभावः &
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां $ नारायणो नर इति स्वतपःप्रभावः &
दृष्ट्वात्मनो भगवतो नियमावलोपं % देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥ भ्प्_02.07.006* ॥
कामं दहन्ति कृतिनो ननु रोषदृष्ट्या $ रोषं दहन्तम् उत ते न दहन्त्यसह्यम् &
कामं दहन्ति कृतिनो ननु रोषदृष्ट्या $ रोषं दहन्तम् उत ते न दहन्त्यसह्यम् &
सो ऽयं यदन्तरम् अलं प्रविशन् बिभेति % कामः कथं नु पुनरस्य मनः श्रयेत ॥ भ्प्_02.07.007* ॥
विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो $ बालो ऽपि सन्न् उपगतस्तपसे वनानि &
विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो $ बालो ऽपि सन्न् उपगतस्तपसे वनानि &
तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो % दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ भ्प्_02.07.008* ॥
यद्वेनम् उत्पथगतं द्विजवाक्यवज्र $ निष्प्लुष्टपौरुषभगं निरये पतन्तम् &
यद्वेनम् उत्पथगतं द्विजवाक्यवज्र $ निष्प्लुष्टपौरुषभगं निरये पतन्तम् &
त्रात्वार्थितो जगति पुत्रपदं च लेभे % दुग्धा वसूनि वसुधा सकलानि येन ॥ भ्प्_02.07.009* ॥
नाभेरसावृषभ आस सुदेविसूनुर् $ यो वै चचार समदृग् जडयोगचर्याम् &
नाभेरसावृषभ आस सुदेविसूनुर् $ यो वै चचार समदृग् जडयोगचर्याम् &
यत् पारमहंस्यम् ऋषयः पदम् आमनन्ति % स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ॥ भ्प्_02.07.010* ॥
सत्रे ममास भगवान् हयशीरषाथो $ साक्षात् स यज्ञपुरुषस्तपनीयवर्णः &
सत्रे ममास भगवान् हयशीरषाथो $ साक्षात् स यज्ञपुरुषस्तपनीयवर्णः &
छन्दोमयो मखमयो ऽखिलदेवतात्मा % वाचो बभूवुरुशतीः श्वसतो ऽस्य नस्तः ॥ भ्प्_02.07.011* ॥
मत्स्यो युगान्तसमये मनुनोपलब्धः $ क्षोणीमयो निखिलजीवनिकायकेतः &
मत्स्यो युगान्तसमये मनुनोपलब्धः $ क्षोणीमयो निखिलजीवनिकायकेतः &
विस्रंसितान् उरुभये सलिले मुखान् मे % आदाय तत्र विजहार ह वेदमार्गान् ॥ भ्प्_02.07.012* ॥
क्षीरोदधावमरदानवयूथपानाम् $ उन्मथ्नताम् अमृतलब्धय आदिदेवः &
क्षीरोदधावमरदानवयूथपानाम् $ उन्मथ्नताम् अमृतलब्धय आदिदेवः &
पृष्ठेन कच्छपवपुर्विदधार गोत्रं % निद्राक्षणो ऽद्रिपरिवर्तकषाणकण्डूः ॥ भ्प्_02.07.013* ॥
त्रैपिष्टपोरुभयहा स नृसिंहरूपं $ कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् &
त्रैपिष्टपोरुभयहा स नृसिंहरूपं $ कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् &
दैत्येन्द्रम् आशु गदयाभिपतन्तम् आराद् % ऊरौ निपात्य विददार नखैः स्फुरन्तम् ॥ भ्प्_02.07.014* ॥
अन्तःसरस्युरुबलेन पदे गृहीतो $ ग्राहेण यूथपतिरम्बुजहस्त आर्तः &
अन्तःसरस्युरुबलेन पदे गृहीतो $ ग्राहेण यूथपतिरम्बुजहस्त आर्तः &
आहेदम् आदिपुरुषाखिललोकनाथ % तीर्थश्रवः श्रवणमङ्गलनामधेय ॥ भ्प्_02.07.015* ॥
श्रुत्वा हरिस्तम् अरणार्थिनम् अप्रमेयश् $ चक्रायुधः पतगराजभुजाधिरूढः &
श्रुत्वा हरिस्तम् अरणार्थिनम् अप्रमेयश् $ चक्रायुधः पतगराजभुजाधिरूढः &
चक्रेण नक्रवदनं विनिपाट्य तस्माद् % धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥ भ्प्_02.07.016* ॥
ज्यायान् गुणैरवरजो ऽप्यदितेः सुतानां $ लोकान् विचक्रम इमान् यदथाधियज्ञः &
ज्यायान् गुणैरवरजो ऽप्यदितेः सुतानां $ लोकान् विचक्रम इमान् यदथाधियज्ञः &
क्ष्मां वामनेन जगृहे त्रिपदच्छलेन % याच्ञाम् ऋते पथि चरन् प्रभुभिर्न चाल्यः ॥ भ्प्_02.07.017* ॥
नार्थो बलेरयम् उरुक्रमपादशौचम् $ आपः शिखाधृतवतो विबुधाधिपत्यम् &
नार्थो बलेरयम् उरुक्रमपादशौचम् $ आपः शिखाधृतवतो विबुधाधिपत्यम् &
यो वै प्रतिश्रुतम् ऋते न चिकीर्षदन्यद् % आत्मानम् अङ्ग मनसा हरये ऽभिमेने ॥ भ्प्_02.07.018* ॥
तुभ्यं च नारद भृशं भगवान् विवृद्ध $ भावेन साधु परितुष्ट उवाच योगम् &
तुभ्यं च नारद भृशं भगवान् विवृद्ध $ भावेन साधु परितुष्ट उवाच योगम् &
ज्ञानं च भागवतम् आत्मसतत्त्वदीपं % यद्वासुदेवशरणा विदुरञ्जसैव ॥ भ्प्_02.07.019* ॥
चक्रं च दिक्ष्वविहतं दशसु स्वतेजो $ मन्वन्तरेषु मनुवंशधरो बिभर्ति &
चक्रं च दिक्ष्वविहतं दशसु स्वतेजो $ मन्वन्तरेषु मनुवंशधरो बिभर्ति &
दुष्टेषु राजसु दमं व्यदधात् स्वकीर्तिं % सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः ॥ भ्प्_02.07.020* ॥
धन्वन्तरिश्च भगवान् स्वयम् एव कीर्तिर् $ नाम्ना नृणां पुरुरुजां रुज आशु हन्ति &
धन्वन्तरिश्च भगवान् स्वयम् एव कीर्तिर् $ नाम्ना नृणां पुरुरुजां रुज आशु हन्ति &
यज्ञे च भागम् अमृतायुरवावरुन्ध % आयुष्यवेदम् अनुशास्त्यवतीर्य लोके ॥ भ्प्_02.07.021* ॥
क्षत्रं क्षयाय विधिनोपभृतं महात्मा $ ब्रह्मध्रुग् उज्झितपथं नरकार्तिलिप्सु &
क्षत्रं क्षयाय विधिनोपभृतं महात्मा $ ब्रह्मध्रुग् उज्झितपथं नरकार्तिलिप्सु &
उद्धन्त्यसाववनिकण्टकम् उग्रवीर्यस् % त्रिःसप्तकृत्व उरुधारपरश्वधेन ॥ भ्प्_02.07.022* ॥
अस्मत्प्रसादसुमुखः कलया कलेश $ इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे &
अस्मत्प्रसादसुमुखः कलया कलेश $ इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे &
तिष्ठन् वनं सदयितानुज आविवेश % यस्मिन् विरुध्य दशकन्धर आर्तिम् आर्च्छत् ॥ भ्प्_02.07.023* ॥
यस्मा अदादुदधिरूढभयाङ्गवेपो $ मार्गं सपद्यरिपुरं हरवद्दिधक्षोः &
यस्मा अदादुदधिरूढभयाङ्गवेपो $ मार्गं सपद्यरिपुरं हरवद्दिधक्षोः &
दूरे सुहृन्मथितरोषसुशोणदृष्ट्या % तातप्यमानमकरोरगनक्रचक्रः ॥ भ्प्_02.07.024* ॥
वक्षःस्थलस्पर्शरुग्नमहेन्द्रवाह $ दन्तैर्विडम्बितककुब्जुष ऊढहासम् &
वक्षःस्थलस्पर्शरुग्नमहेन्द्रवाह $ दन्तैर्विडम्बितककुब्जुष ऊढहासम् &
सद्यो ऽसुभिः सह विनेष्यति दारहर्तुर् % विस्फूर्जितैर्धनुष उच्चरतो ऽधिसैन्ये ॥ भ्प्_02.07.025* ॥
भूमेः सुरेतरवरूथविमर्दितायाः $ क्लेशव्ययाय कलया सितकृष्णकेशः &
भूमेः सुरेतरवरूथविमर्दितायाः $ क्लेशव्ययाय कलया सितकृष्णकेशः &
जातः करिष्यति जनानुपलक्ष्यमार्गः % कर्माणि चात्ममहिमोपनिबन्धनानि ॥ भ्प्_02.07.026* ॥
तोकेन जीवहरणं यदुलूकिकायास् $ त्रैमासिकस्य च पदा शकटो ऽपवृत्तः &
तोकेन जीवहरणं यदुलूकिकायास् $ त्रैमासिकस्य च पदा शकटो ऽपवृत्तः &
यद्रिङ्गतान्तरगतेन दिविस्पृशोर्वा % उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् ॥ भ्प्_02.07.027* ॥
यद्वै व्रजे व्रजपशून् विषतोयपीतान् $ पालांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या &
यद्वै व्रजे व्रजपशून् विषतोयपीतान् $ पालांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या &
तच्छुद्धये ऽतिविषवीर्यविलोलजिह्वम् % उच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥ भ्प्_02.07.028* ॥
तत् कर्म दिव्यम् इव यन् निशि निःशयानं $ दावाग्निना शुचिवने परिदह्यमाने &
तत् कर्म दिव्यम् इव यन् निशि निःशयानं $ दावाग्निना शुचिवने परिदह्यमाने &
उन्नेष्यति व्रजम् अतो ऽवसितान्तकालं % नेत्रे पिधाप्य सबलो ऽनधिगम्यवीर्यः ॥ भ्प्_02.07.029* ॥
गृह्णीत यद्यदुपबन्धम् अमुष्य माता $ शुल्बं सुतस्य न तु तत् तदमुष्य माति &
गृह्णीत यद्यदुपबन्धम् अमुष्य माता $ शुल्बं सुतस्य न तु तत् तदमुष्य माति &
यज् जृम्भतो ऽस्य वदने भुवनानि गोपी % संवीक्ष्य शङ्कितमनाः प्रतिबोधितासीत् ॥ भ्प्_02.07.030* ॥
नन्दं च मोक्ष्यति भयाद्वरुणस्य पाशाद् $ गोपान् बिलेषु पिहितान् मयसूनुना च &
नन्दं च मोक्ष्यति भयाद्वरुणस्य पाशाद् $ गोपान् बिलेषु पिहितान् मयसूनुना च &
अह्न्यापृतं निशि शयानम् अतिश्रमेण % लोकं विकुण्ठम् उपनेष्यति गोकुलं स्म ॥ भ्प्_02.07.031* ॥
गोपैर्मखे प्रतिहते व्रजविप्लवाय $ देवे ऽभिवर्षति पशून् कृपया रिरक्षुः &
गोपैर्मखे प्रतिहते व्रजविप्लवाय $ देवे ऽभिवर्षति पशून् कृपया रिरक्षुः &
धर्तोच्छिलीन्ध्रम् इव सप्तदिनानि सप्त % वर्षो महीध्रम् अनघैककरे सलीलम् ॥ भ्प्_02.07.032* ॥
क्रीडन् वने निशि निशाकररश्मिगौर्यां $ रासोन्मुखः कलपदायतमूर्च्छितेन &
क्रीडन् वने निशि निशाकररश्मिगौर्यां $ रासोन्मुखः कलपदायतमूर्च्छितेन &
उद्दीपितस्मररुजां व्रजभृद्वधूनां % हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ भ्प्_02.07.033* ॥
ये च प्रलम्बखरदर्दुरकेश्यरिष्ट $ मल्लेभकंसयवनाः कपिपौण्ड्रकाद्याः &
ये च प्रलम्बखरदर्दुरकेश्यरिष्ट $ मल्लेभकंसयवनाः कपिपौण्ड्रकाद्याः &
अन्ये च शाल्वकुजबल्वलदन्तवक्र % सप्तोक्षशम्बरविदूरथरुक्मिमुख्याः ॥ भ्प्_02.07.034* ॥
ये वा मृधे समितिशालिन आत्तचापाः $ काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्याः &
ये वा मृधे समितिशालिन आत्तचापाः $ काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्याः &
यास्यन्त्यदर्शनम् अलं बलपार्थभीम % व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ भ्प्_02.07.035* ॥
कालेन मीलितधियाम् अवमृश्य न्णां $ स्तोकायुषां स्वनिगमो बत दूरपारः &
कालेन मीलितधियाम् अवमृश्य न्णां $ स्तोकायुषां स्वनिगमो बत दूरपारः &
आविर्हितस्त्वनुयुगं स हि सत्यवत्यां % वेदद्रुमं विटपशो विभजिष्यति स्म ॥ भ्प्_02.07.036* ॥
देवद्विषां निगमवर्त्मनि निष्ठितानां $ पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः &
देवद्विषां निगमवर्त्मनि निष्ठितानां $ पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः &
लोकान् घ्नतां मतिविमोहम् अतिप्रलोभं % वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥ भ्प्_02.07.037* ॥
यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः $ पाषण्डिनो द्विजजना वृषला नृदेवाः &
यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः $ पाषण्डिनो द्विजजना वृषला नृदेवाः &
स्वाहा स्वधा वषडिति स्म गिरो न यत्र % शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥ भ्प्_02.07.038* ॥
सर्गे तपो ऽहम् ऋषयो नव ये प्रजेशाः $ स्थाने ऽथ धर्ममखमन्वमरावनीशाः &
सर्गे तपो ऽहम् ऋषयो नव ये प्रजेशाः $ स्थाने ऽथ धर्ममखमन्वमरावनीशाः &
अन्ते त्वधर्महरमन्युवशासुराद्या % मायाविभूतय इमाः पुरुशक्तिभाजः ॥ भ्प्_02.07.039* ॥
विष्णोर्नु वीर्यगणनां कतमो ऽर्हतीह $ यः पार्थिवान्यपि कविर्विममे रजांसि &
विष्णोर्नु वीर्यगणनां कतमो ऽर्हतीह $ यः पार्थिवान्यपि कविर्विममे रजांसि &
चस्कम्भ यः स्वरहसास्खलता त्रिपृष्ठं % यस्मात् त्रिसाम्यसदनादुरुकम्पयानम् ॥ भ्प्_02.07.040* ॥
नान्तं विदाम्यहम् अमी मुनयो ऽग्रजास्ते $ मायाबलस्य पुरुषस्य कुतो ऽवरा ये &
नान्तं विदाम्यहम् अमी मुनयो ऽग्रजास्ते $ मायाबलस्य पुरुषस्य कुतो ऽवरा ये &
गायन् गुणान् दशशतानन आदिदेवः % शेषो ऽधुनापि समवस्यति नास्य पारम् ॥ भ्प्_02.07.041* ॥
येषां स एष भगवान् दययेदनन्तः $ सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् &
येषां स एष भगवान् दययेदनन्तः $ सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् &
ते दुस्तराम् अतितरन्ति च देवमायां % नैषां ममाहम् इति धीः श्वशृगालभक्ष्ये ॥ भ्प्_02.07.042* ॥
वेदाहम् अङ्ग परमस्य हि योगमायां $ यूयं भवश्च भगवान् अथ दैत्यवर्यः &
वेदाहम् अङ्ग परमस्य हि योगमायां $ यूयं भवश्च भगवान् अथ दैत्यवर्यः &
पत्नी मनोः स च मनुश्च तदात्मजाश्च % प्राचीनबर्हिरृभुरङ्ग उत ध्रुवश्च ॥ भ्प्_02.07.043* ॥
इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि $ रघ्वम्बरीषसगरा गयनाहुषाद्याः &
इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि $ रघ्वम्बरीषसगरा गयनाहुषाद्याः &
मान्धात्रलर्कशतधन्वनुरन्तिदेवा % देवव्रतो बलिरमूर्त्तरयो दिलीपः ॥ भ्प्_02.07.044* ॥
सौभर्युतङ्कशिबिदेवलपिप्पलाद $ सारस्वतोद्धवपराशरभूरिषेणाः &
सौभर्युतङ्कशिबिदेवलपिप्पलाद $ सारस्वतोद्धवपराशरभूरिषेणाः &
ये ऽन्ये विभीषणहनूमदुपेन्द्रदत्त % पार्थार्ष्टिषेणविदुरश्रुतदेववर्याः ॥ भ्प्_02.07.045* ॥
ते वै विदन्त्यतितरन्ति च देवमायां $ स्त्रीशूद्रहूणशबरा अपि पापजीवाः &
ते वै विदन्त्यतितरन्ति च देवमायां $ स्त्रीशूद्रहूणशबरा अपि पापजीवाः &
यद्यद्भुतक्रमपरायणशीलशिक्षास् % तिर्यग्जना अपि किम् उ श्रुतधारणा ये ॥ भ्प्_02.07.046* ॥
शश्वत् प्रशान्तम् अभयं प्रतिबोधमात्रं $ शुद्धं समं सदसतः परमात्मतत्त्वम् &
शश्वत् प्रशान्तम् अभयं प्रतिबोधमात्रं $ शुद्धं समं सदसतः परमात्मतत्त्वम् &
शब्दो न यत्र पुरुकारकवान् क्रियार्थो % माया परैत्यभिमुखे च विलज्जमाना ॥ भ्प्_02.07.047* ॥
तद्वै पदं भगवतः परमस्य पुंसो $ ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् &
तद्वै पदं भगवतः परमस्य पुंसो $ ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् &
सध्र्यङ् नियम्य यतयो यमकर्तहेतिं % जह्युः स्वराडिव निपानखनित्रम् इन्द्रः ॥ भ्प्_02.07.048* ॥
स श्रेयसाम् अपि विभुर्भगवान् यतो ऽस्य $ भावस्वभावविहितस्य सतः प्रसिद्धिः &
स श्रेयसाम् अपि विभुर्भगवान् यतो ऽस्य $ भावस्वभावविहितस्य सतः प्रसिद्धिः &
देहे स्वधातुविगमे ऽनुविशीर्यमाणे % व्योमेव तत्र पुरुषो न विशीर्यते ञ्जः ॥ भ्प्_02.07.049* ॥
सो ऽयं ते ऽभिहितस्तात भगवान् विश्वभावनः ।
समासेन हरेर्नान्यदन्यस्मात् सदसच् च यत्
इदं भागवतं नाम यन् मे भगवतोदितम् ।
सङ्ग्रहो ऽयं विभूतीनां त्वम् एतद्विपुली कुरु
यथा हरौ भगवति नृणां भक्तिर्भविष्यति ।
सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय
मायां वर्णयतो ऽमुष्य ईश्वरस्यानुमोदतः ।
शृण्वतः श्रद्धया नित्यं माययात्मा न मुह्यति
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0