भागवत पुराण · अध्याय 02.06
भ्प्_02.06.001।0 ब्रह्मोवाच
वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः ।
हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च
सर्वासूनां च वायोश्च तन्नासे परमायणे ।
अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोः
रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी ।
कर्णौ दिशां च तीर्थानां श्रोत्रम् आकाशशब्दयोः ।
तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम्
त्वग् अस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि ।
रोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृतः
केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् ।
बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम्
विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य च ।
सर्वकामवरस्यापि हरेश्चरण आस्पदम्
अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः ।
पुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः
पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ।
हिंसाया निरृतेर्मृत्योर्निरयस्य गुदं स्मृतः
पराभूतेरधर्मस्य तमसश्चापि पश्चिमः ।
नाड्यो नदनदीनां च गोत्राणाम् अस्थिसंहतिः
अव्यक्तरससिन्धूनां भूतानां निधनस्य च ।
उदरं विदितं पुंसो हृदयं मनसः पदम्
धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ।
विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम्
अहं भवान् भवश्चैव त इमे मुनयो ऽग्रजाः ।
सुरासुरनरा नागाः खगा मृगसरीसृपाः
गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः ।
पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः
अन्ये च विविधा जीवाजलस्थलनभौकसः ।
ग्रहर्क्षकेतवस्तारास्तडितः स्तनयित्नवः
सर्वं पुरुष एवेदं भूतं भव्यं भवच् च यत् ।
तेनेदम् आवृतं विश्वं वितस्तिम् अधितिष्ठति
स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ ।
एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान्
सो ऽमृतस्याभयस्येशो मर्त्यम् अन्नं यदत्यगात् ।
महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः
पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः ।
अमृतं क्षेमम् अभयं त्रिमूर्ध्नो ऽधायि मूर्धसु
पादास्त्रयो बहिश्चासन्न् अप्रजानां य आश्रमाः ।
अन्तस्त्रिलोक्यास्त्वपरो गृहमेधो ऽबृहद्व्रतः
सृती विचक्रमे विश्वम् साशनानशने उभे ।
यदविद्या च विद्या च पुरुषस्तूभयाश्रयः
यस्मादण्डं विराड्जज्ञे भूतेन्द्रियगुणात्मकः ।
तद्द्रव्यम् अत्यगाद्विश्वं गोभिः सूर्य इवातपन्
यदास्य नाभ्यान् नलिनादहम् आसं महात्मनः ।
नाविदं यज्ञसम्भारान् पुरुषावयवान् ऋते
तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः ।
इदं च देवयजनं कालश्चोरुगुणान्वितः
वस्तून्योषधयः स्नेहा रसलोहमृदो जलम् ।
ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम
नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च ।
देवतानुक्रमः कल्पः सङ्कल्पस्तन्त्रम् एव च
गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् ।
पुरुषावयवैरेते सम्भाराः सम्भृता मया
इति सम्भृतसम्भारः पुरुषावयवैरहम् ।
तम् एव पुरुषं यज्ञं तेनैवायजम् ईश्वरम्
ततस्ते भ्रातर इमे प्रजानां पतयो नव ।
अयजन् व्यक्तम् अव्यक्तं पुरुषं सुसमाहिताः
ततश्च मनवः काले ईजिरे ऋषयो ऽपरे ।
पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम्
नारायणे भगवति तदिदं विश्वम् आहितम् ।
गृहीतमायोरुगुणः सर्गादावगुणः स्वतः
सृजामि तन्नियुक्तो ऽहं हरो हरति तद्वशः ।
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक्
इति ते ऽभिहितं तात यथेदम् अनुपृच्छसि ।
नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम्
न भारती मे ऽङ्ग मृषोपलक्ष्यते न वै क्वचिन् मे मनसो मृषा गतिः ।
न मे हृषीकाणि पतन्त्यसत्पथे यन् मे हृदौत्कण्ठ्यवता धृतो हरिः
सो ऽहं समाम्नायमयस्तपोमयः प्रजापतीनाम् अभिवन्दितः पतिः ।
आस्थाय योगं निपुणं समाहितस्तं नाध्यगच्छं यत आत्मसम्भवः
नतो ऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् ।
यो ह्यात्ममायाविभवं स्म पर्यगाद् यथा नभः स्वान्तम् अथापरे कुतः
नाहं न यूयं यदृतां गतिं विदुर् न वामदेवः किम् उतापरे सुराः ।
तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे
यस्यावतारकर्माणि गायन्ति ह्यस्मदादयः ।
न यं विदन्ति तत्त्वेन तस्मै भगवते नमः
स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः ।
आत्मात्मन्यात्मनात्मानं स संयच्छति पाति च
विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यग् अवस्थितम् ।
सत्यं पूर्णम् अनाद्यन्तं निर्गुणं नित्यम् अद्वयम्
ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः ।
यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम्
आद्यो ऽवतारः पुरुषः परस्य कालः स्वभावः सदसन्मनश्च ।
द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः
अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च ।
स्वर्लोकपालाः खगलोकपाला नृलोकपालास्तललोकपालाः
गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथाः ।
ये वा ऋषीणाम् ऋषभाः पित्णां दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः ।
अन्ये च ये प्रेतपिशाचभूत कूष्माण्डयादोमृगपक्ष्यधीशाः
यत् किञ्च लोके भगवन् महस्वद् ओजःसहस्वद्बलवत् क्षमावत् ।
श्रीह्रीविभूत्यात्मवदद्भुतार्णं तत्त्वं परं रूपवदस्वरूपम्
प्राधान्यतो यान् ऋष आमनन्ति लीलावतारान् पुरुषस्य भूम्नः ।
आपीयतां कर्णकषायशोषान् अनुक्रमिष्ये त इमान् सुपेशान्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0