भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 02.05

02.05.001

भ्प्_02.05.001।0 नारद उवाच
देवदेव नमस्ते ऽस्तु भूतभावन पूर्वज ।
तद्विजानीहि यज् ज्ञानम् आत्मतत्त्वनिदर्शनम्

02.05.002

यद्रूपं यदधिष्ठानं यतः सृष्टम् इदं प्रभो ।
यत् संस्थं यत् परं यच् च तत् तत्त्वं वद तत्त्वतः

02.05.003

सर्वं ह्येतद्भवान् वेद भूतभव्यभवत्प्रभुः ।
करामलकवद्विश्वं विज्ञानावसितं तव

02.05.004

यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः ।
एकः सृजसि भूतानि भूतैरेवात्ममायया

02.05.005

आत्मन् भावयसे तानि न पराभावयन् स्वयम् ।
आत्मशक्तिम् अवष्टभ्य ऊर्णनाभिरिवाक्लमः

02.05.006

नाहं वेद परं ह्यस्मिन् नापरं न समं विभो ।
नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः

02.05.007

स भवान् अचरद्घोरं यत् तपः सुसमाहितः ।
तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि

02.05.008

एतन् मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर ।
विजानीहि यथैवेदम् अहं बुध्ये ऽनुशासितः

02.05.009

भ्प्_02.05.009।0 ब्रह्मोवाच
सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् ।
यदहं चोदितः सौम्य भगवद्वीर्यदर्शने

02.05.010

नानृतं तव तच् चापि यथा मां प्रब्रवीषि भोः ।
अविज्ञाय परं मत्त एतावत् त्वं यतो हि मे

02.05.011

येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् ।
यथार्को ऽग्निर्यथा सोमो यथर्क्षग्रहतारकाः

02.05.012

तस्मै नमो भगवते वासुदेवाय धीमहि ।
यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम्

02.05.013

विलज्जमानया यस्य स्थातुम् ईक्षापथे ऽमुया ।
विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः

02.05.014

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
वासुदेवात् परो ब्रह्मन् न चान्यो ऽर्थो ऽस्ति तत्त्वतः

02.05.015

नारायणपरा वेदा देवा नारायणाङ्गजाः ।
नारायणपरा लोका नारायणपरा मखाः

02.05.016

नारायणपरो योगो नारायणपरं तपः ।
नारायणपरं ज्ञानं नारायणपरा गतिः

02.05.017

तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनः ।
सृज्यं सृजामि सृष्टो ऽहम् ईक्षयैवाभिचोदितः

02.05.018

सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः ।
स्थितिसर्गनिरोधेषु गृहीता मायया विभोः

02.05.019

कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः ।
बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः

02.05.020

स एष भगवांल् लिङ्गैस्त्रिभिरेतैरधोक्षजः ।
स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः

02.05.021

कालं कर्म स्वभावं च मायेशो मायया स्वया ।
आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे

02.05.022

कालाद्गुणव्यतिकरः परिणामः स्वभावतः ।
कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत्

02.05.023

महतस्तु विकुर्वाणाद्रजःसत्त्वोपबृंहितात् ।
तमःप्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः

02.05.024

सो ऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत् त्रिधा ।
वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ।
द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो

02.05.025

तामसादपि भूतादेर्विकुर्वाणादभून् नभः ।
तस्य मात्रा गुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः

02.05.026

नभसो ऽथ विकुर्वाणादभूत् स्पर्शगुणो ऽनिलः ।
परान्वयाच् छब्दवांश्च प्राण ओजः सहो बलम्

02.05.027

वायोरपि विकुर्वाणात् कालकर्मस्वभावतः ।
उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत्

02.05.028

तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् ।
रूपवत् स्पर्शवच् चाम्भो घोषवच् च परान्वयात्

02.05.029

विशेषस्तु विकुर्वाणादम्भसो गन्धवान् अभूत् ।
परान्वयाद्रसस्पर्श शब्दरूपगुणान्वितः

02.05.030

वैकारिकान् मनो जज्ञे देवा वैकारिका दश ।
दिग्वातार्कप्रचेतो ऽश्वि वह्नीन्द्रोपेन्द्रमित्रकाः

02.05.031

तैजसात् तु विकुर्वाणादिन्द्रियाणि दशाभवन् ।
ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणश्च तैजसौ ।
श्रोत्रं त्वग्घ्राणदृग्जिह्वा वाग्दोर्मेढ्राङ्घ्रिपायवः

02.05.032

यदैते ऽसङ्गता भावा भूतेन्द्रियमनोगुणाः ।
यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम

02.05.033

तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः ।
सदसत्त्वम् उपादाय चोभयं ससृजुर्ह्यदः

02.05.034

वर्षपूगसहस्रान्ते तदण्डम् उदके शयम् ।
कालकर्मस्वभावस्थो जीवो ञ्जीवम् अजीवयत्

02.05.035

स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः ।
सहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान्

02.05.036

यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः ।
कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः

02.05.037

पुरुषस्य मुखं ब्रह्म क्षत्रम् एतस्य बाहवः ।
ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत

02.05.038

भूर्लोकः कल्पितः पद्भ्यां भुवर्लोको ऽस्य नाभितः ।
हृदा स्वर्लोक उरसा महर्लोको महात्मनः

02.05.039

ग्रीवायां जनलोको ऽस्य तपोलोकः स्तनद्वयात् ।
मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः

02.05.040

तत्कट्यां चातलं कॢप्तम् ऊरुभ्यां वितलं विभोः ।
जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम्

02.05.041

महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् ।
पातालं पादतलत इति लोकमयः पुमान्

02.05.042

भूर्लोकः कल्पितः पद्भ्यां भुवर्लोको ऽस्य नाभितः ।
स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc