भागवत पुराण · अध्याय 01.15
भ्प्_01.15.001।0 सूत उवाच
एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः ।
नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः
शोकेन शुष्यद्वदन हृत्सरोजो हतप्रभः ।
विभुं तम् एवानुस्मरन् नाशक्नोत् प्रतिभाषितुम्
कृच्छ्रेण संस्तभ्य शुचः पाणिनामृज्य नेत्रयोः ।
परोक्षेण समुन्नद्ध प्रणयौत्कण्ठ्यकातरः
सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् ।
नृपम् अग्रजम् इत्याह बाष्पगद्गदया गिरा
भ्प्_01.15.005।0 अर्जुन उवाच
वञ्चितो ऽहं महाराज हरिणा बन्धुरूपिणा ।
येन मे ऽपहृतं तेजो देवविस्मापनं महत्
यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः ।
उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा
यत्संश्रयाद्द्रुपदगेहम् उपागतानां राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् ।
तेजो हृतं खलु मयाभिहतश्च मत्स्यः सज्जीकृतेन धनुषाधिगता च कृष्णा
यत्सन्निधावहम् उ खाण्डवम् अग्नये ऽदाम् इन्द्रं च सामरगणं तरसा विजित्य ।
लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्यो ऽहरन् नृपतयो बलिम् अध्वरे ते
यत्तेजसा नृपशिरोऽङ्घ्रिम् अहन् मखार्थम् आर्यो ऽनुजस्तव गजायुतसत्त्ववीर्यः ।
तेनाहृताः प्रमथनाथमखाय भूपा यन्मोचितास्तदनयन् बलिम् अध्वरे ते
पत्न्यास्तवाधिमखकॢप्तमहाभिषेक श्लाघिष्ठचारुकबरं कितवैः सभायाम् ।
स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या यस्तत्स्त्रियो ऽकृतहतेशविमुक्तकेशाः
यो नो जुगोप वन एत्य दुरन्तकृच्छ्राद् दुर्वाससो ऽरिरचितादयुताग्रभुग् यः ।
शाकान्नशिष्टम् उपयुज्य यतस्त्रिलोकीं तृप्ताम् अमंस्त सलिले विनिमग्नसङ्घः
यत्तेजसाथ भगवान् युधि शूलपाणिर् विस्मापितः सगिरिजो ऽस्त्रम् अदान् निजं मे ।
अन्ये ऽपि चाहम् अमुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम्
तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणम् अरातिवधाय देवाः ।
सेन्द्राः श्रिता यदनुभावितम् आजमीढ तेनाहम् अद्य मुषितः पुरुषेण भूम्ना
यद्बान्धवः कुरुबलाब्धिम् अनन्तपारम् एको रथेन ततरे ऽहम् अतीर्यसत्त्वम् ।
प्रत्याहृतं बहु धनं च मया परेषां तेजास्पदं मणिमयं च हृतं शिरोभ्यः
यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र राजन्यवर्यरथमण्डलमण्डितासु ।
अग्रेचरो मम विभो रथयूथपानाम् आयुर्मनांसि च दृशा सह ओज आर्च्छत्
यद्दोःषु मा प्रणिहितं गुरुभीष्मकर्ण नप्तृत्रिगर्तशल्यसैन्धवबाह्लिकाद्यैः ।
अस्त्राण्यमोघमहिमानि निरूपितानि नोपस्पृशुर्नृहरिदासम् इवासुराणि
सौत्ये वृतः कुमतिनात्मद ईश्वरो मे यत्पादपद्मम् अभवाय भजन्ति भव्याः ।
मां श्रान्तवाहम् अरयो रथिनो भुविष्ठं न प्राहरन् यदनुभावनिरस्तचित्ताः
नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हे ऽर्जुन सखे कुरुनन्दनेति ।
सञ्जल्पितानि नरदेव हृदिस्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य
शय्यासनाटनविकत्थनभोजनादिष्व् ऐक्याद्वयस्य ऋतवान् इति विप्रलब्धः ।
सख्युः सखेव पितृवत् तनयस्य सर्वं सेहे महान् महितया कुमतेरघं मे
सो ऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्यः ।
अध्वन्युरुक्रमपरिग्रहम् अङ्ग रक्षन् गोपैरसद्भिरबलेव विनिर्जितो ऽस्मि
तद्वै धनुस्त इषवः स रथो हयास्ते सो ऽहं रथी नृपतयो यत आनमन्ति ।
सर्वं क्षणेन तदभूदसदीशरिक्तं भस्मन् हुतं कुहकराद्धम् इवोप्तम् ऊष्याम्
राजंस्त्वयानुपृष्टानां सुहृदां नः सुहृत्पुरे ।
विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथः
वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् ।
अजानताम् इवान्योन्यं चतुःपञ्चावशेषिताः
प्रायेणैतद्भगवत ईश्वरस्य विचेष्टितम् ।
मिथो निघ्नन्ति भूतानि भावयन्ति च यन् मिथः
जलौकसां जले यद्वन् महान्तो ऽदन्त्यणीयसः ।
दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथः
एवं बलिष्ठैर्यदुभिर्महद्भिरितरान् विभुः ।
यदून् यदुभिरन्योन्यं भूभारान् सञ्जहार ह
देशकालार्थयुक्तानि हृत्तापोपशमानि च ।
हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे
भ्प्_01.15.028।0 सूत उवाच
एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् ।
सौहार्देनातिगाढेन शान्तासीद्विमला मतिः
वासुदेवाङ्घ्र्यनुध्यान परिबृंहितरंहसा ।
भक्त्या निर्मथिताशेष कषायधिषणो ऽर्जुनः
गीतं भगवता ज्ञानं यत् तत् सङ्ग्राममूर्धनि ।
कालकर्मतमोरुद्धं पुनरध्यगमत् प्रभुः
विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशयः ।
लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः
निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च ।
स्वःपथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः
पृथाप्यनुश्रुत्य धनञ्जयोदितं नाशं यदूनां भगवद्गतिं च ताम् ।
एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपरराम संसृतेः
ययाहरद्भुवो भारं तां तनुं विजहावजः ।
कण्टकं कण्टकेनेव द्वयं चापीशितुः समम्
यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः ।
भूभारः क्षपितो येनजहौ तच् च कलेवरम्
यदा मुकुन्दो भगवान् इमां महीं जहौ स्वतन्वा श्रवणीयसत्कथः ।
तदाहरेवाप्रतिबुद्धचेतसाम् अभद्रहेतुः कलिरन्ववर्तत
युधिष्ठिरस्तत् परिसर्पणं बुधः पुरे च राष्ट्रे च गृहे तथात्मनि ।
विभाव्य लोभानृतजिह्महिंसनाद्यधर्मचक्रं गमनाय पर्यधात्
स्वराट् पौत्रं विनयिनम् आत्मनः सुसमं गुणैः ।
तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये
मथुरायां तथा वज्रं शूरसेनपतिं ततः ।
प्राजापत्यां निरूप्येष्टिम् अग्नीन् अपिबदीश्वरः
विसृज्य तत्र तत् सर्वं दुकूलवलयादिकम् ।
निर्ममो निरहङ्कारः सञ्छिन्नाशेषबन्धनः
वाचं जुहाव मनसि तत् प्राण इतरे च तम् ।
मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत्
त्रित्वे हुत्वा च पञ्चत्वं तच् चैकत्वे ञ्जुहोन् मुनिः ।
सर्वम् आत्मन्यजुहवीद्ब्रह्मण्यात्मानम् अव्यये
चीरवासा निराहारो बद्धवाङ् मुक्तमूर्धजः ।
दर्शयन्न् आत्मनो रूपं जडोन्मत्तपिशाचवत्
अनवेक्षमाणो निरगादशृण्वन् बधिरो यथा ।
उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः ।
हृदि ब्रह्म परं ध्यायन् नावर्तेत यतो गतः
सर्वे तम् अनुनिर्जग्मुर्भ्रातरः कृतनिश्चयाः ।
कलिनाधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि
ते साधुकृतसर्वार्था ज्ञात्वात्यन्तिकम् आत्मनः ।
मनसा धारयाम् आसुर्वैकुण्ठचरणाम्बुजम्
तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे ।
तस्मिन् नारायणपदे एकान्तमतयो गतिम्
अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः ।
विधूतकल्मषा स्थानं विरजेनात्मनैव हि
विदुरो ऽपि परित्यज्य प्रभासे देहम् आत्मनः ।
कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ
द्रौपदी च तदाज्ञाय पतीनाम् अनपेक्षताम् ।
वासुदेवे भगवति ह्येकान्तमतिराप तम्
यः श्रद्धयैतद्भगवत्प्रियाणां पाण्डोः सुतानाम् इति सम्प्रयाणम् ।
शृणोत्यलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिम् उपैति सिद्धिम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0