भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 01.11

01.11.001

भ्प्_01.11.001।0 सूत उवाच
आनर्तान् स उपव्रज्य स्वृद्धाञ् जनपदान् स्वकान् ।
दध्मौ दरवरं तेषां विषादं शमयन्न् इव

01.11.002

स उच्चकाशे धवलोदरो दरो ऽप्युरुक्रमस्याधरशोणशोणिमा ।
दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः

01.11.003

तम् उपश्रुत्य निनदं जगद्भयभयावहम् ।
प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः

01.11.004

तत्रोपनीतबलयो रवेर्दीपम् इवादृताः ।
आत्मारामं पूर्णकामं निजलाभेन नित्यदा

01.11.005

प्रीत्युत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा ।
पितरं सर्वसुहृदम् अवितारम् इवार्भकाः

01.11.006

नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम् ।
परायणं क्षेमम् इहेच्छतां परं न यत्र कालः प्रभवेत् परः प्रभुः

01.11.007

भवाय नस्त्वं भव विश्वभावन त्वम् एव माताथ सुहृत्पतिः पिता ।
त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम

01.11.008

अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानाम् अपि दूरदर्शनम् ।
प्रेमस्मितस्निग्धनिरीक्षणाननं पश्येम रूपं तव सर्वसौभगम्

01.11.009

यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्दिदृक्षया ।
तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत

01.11.010

कथं वयं नाथ चिरोषिते त्वयि प्रसन्नदृष्ट्याखिलतापशोषणम् ।
जीवेम ते सुन्दरहासशोभितम् अपश्यमाना वदनं मनोहरम्

01.11.011

इति चोदीरिता वाचः प्रजानां भक्तवत्सलः ।
शृण्वानो ऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत् पुरम्

01.11.012

मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः ।
आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीम् इव

01.11.013

सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमैः ।
उद्यानोपवनारामैर्वृतपद्माकरश्रियम्

01.11.014

गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम् ।
चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपाम्

01.11.015

सम्मार्जितमहामार्ग रथ्यापणकचत्वराम् ।
सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः

01.11.016

द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभिः ।
अलङ्कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकैः

01.11.017

निशम्य प्रेष्ठम् आयान्तं वसुदेवो महामनाः ।
अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः

01.11.018

प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।
प्रहर्षवेगोच्छशितशयनासनभोजनाः

01.11.019

वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः ।
शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृताः ।
प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागतसाध्वसाः

01.11.020

वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः ।
लसत्कुण्डलनिर्भातकपोलवदनश्रियः

01.11.021

नटनर्तकगन्धर्वाः सूतमागधवन्दिनः ।
गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च

01.11.022

भगवांस्तत्र बन्धूनां पौराणाम् अनुवर्तिनाम् ।
यथाविध्युपसङ्गम्य सर्वेषां मानम् आदधे

01.11.023

प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणैः ।
आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभुः

01.11.024

स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि ।
आशीर्भिर्युज्यमानो ऽन्यैर्वन्दिभिश्चाविशत् पुरम्

01.11.025

राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः ।
हर्म्याण्यारुरुहुर्विप्र तदीक्षणमहोत्सवाः

01.11.026

नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् ।
न वितृप्यन्ति हि दृशः श्रियो धामाङ्गम् अच्युतम्

01.11.027

श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् ।
बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम्

01.11.028

सितातपत्रव्यजनैरुपस्कृतः प्रसूनवर्षैरभिवर्षितः पथि ।
पिशङ्गवासा वनमालया बभौ घनो यथार्कोडुपचापवैद्युतैः

01.11.029

प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः ।
ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा

01.11.030

ताः पुत्रम् अङ्कम् आरोप्य स्नेहस्नुतपयोधराः ।
हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः

01.11.031

अथाविशत् स्वभवनं सर्वकामम् अनुत्तमम् ।
प्रासादा यत्र पत्नीनां सहस्राणि च षोडश

01.11.032

पत्न्यः पतिं प्रोष्य गृहानुपागतं विलोक्य सञ्जातमनोमहोत्सवाः ।
उत्तस्थुरारात् सहसासनाशयात् साकं व्रतैर्व्रीडितलोचनाननाः

01.11.033

तम् आत्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम् ।
निरुद्धम् अप्यास्रवदम्बु नेत्रयोर् विलज्जतीनां भृगुवर्य वैक्लवात्

01.11.034

यद्यप्यसौ पार्श्वगतो रहोगतस् तथापि तस्याङ्घ्रियुगं नवं नवम् ।
पदे पदे का विरमेत तत्पदाच् चलापि यच् छ्रीर्न जहाति कर्हिचित्

01.11.035

एवं नृपाणां क्षितिभारजन्मनाम् अक्षौहिणीभिः परिवृत्ततेजसाम् ।
विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः

01.11.036

स एष नरलोके ऽस्मिन्न् अवतीर्णः स्वमायया ।
रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा

01.11.038

उद्दामभावपिशुनामलवल्गुहास $ व्रीडावलोकनिहतो मदनो ऽपि यासाम् &अम्प्;
सम्मुह्य चापम् अजहात् प्रमदोत्तमास्ता % यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ भ्प्_01.11.037* ॥
तम् अयं मन्यते लोको ह्यसङ्गम् अपि सङ्गिनम् ।
आत्मौपम्येन मनुजं व्यापृण्वानं यतो ऽबुधः

01.11.039

एतदीशनम् ईशस्य प्रकृतिस्थो ऽपि तद्गुणैः ।
न युज्यते सदात्मस्थैर्यथा बुद्धिस्तदाश्रया

01.11.040

तं मेनिरे ऽबला मूढाः स्त्रैणं चानुव्रतं रहः ।
अप्रमाणविदो भर्तुरीश्वरं मतयो यथा

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc