भागवत पुराण · अध्याय 01.07
भ्प्_01.07.001।0 शौनक उवाच
निर्गते नारदे सूत भगवान् बादरायणः ।
श्रुतवांस्तदभिप्रेतं ततः किम् अकरोद्विभुः
भ्प्_01.07.002।0 सूत उवाच
ब्रह्मनद्यां सरस्वत्याम् आश्रमः पश्चिमे तटे ।
शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः
तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते ।
आसीनो ऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम्
भक्तियोगेन मनसि सम्यक् प्रणिहिते ऽमले ।
अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयम्
यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् ।
परो ऽपि मनुते ऽनर्थं तत्कृतं चाभिपद्यते
अनर्थोपशमं साक्षाद्भक्तियोगम् अधोक्षजे ।
लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम्
यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे ।
भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा
स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् ।
शुकम् अध्यापयाम् आस निवृत्तिनिरतं मुनिः
भ्प्_01.07.009।0 शौनक उवाच
स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः ।
कस्य वा बृहतीम् एताम् आत्मारामः समभ्यसत्
भ्प्_01.07.010।0 सूत उवाच
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
कुर्वन्त्यहैतुकीं भक्तिम् इत्थम्भूतगुणो हरिः
हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणिः ।
अध्यगान् महदाख्यानं नित्यं विष्णुजनप्रियः
परीक्षितो ऽथ राजर्षेर्जन्मकर्मविलापनम् ।
संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम्
यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु ।
वृकोदराविद्धगदाभिमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्रे
भर्तुः प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि ।
उपाहरद्विप्रियम् एव तस्य जुगुप्सितं कर्म विगर्हयन्ति
माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना ।
तदारुदद्वाष्पकलाकुलाक्षी तां सान्त्वयन्न् आह किरीटमाली
तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबन्धोः शिर आततायिनः ।
गाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाक्रम्य यत् स्नास्यसि दग्धपुत्रा
इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः ।
अन्वाद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन
तम् आपतन्तं स विलक्ष्य दूरात् कुमारहोद्विग्नमना रथेन ।
पराद्रवत् प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद्यथा कः
यदाशरणम् आत्मानम् ऐक्षत श्रान्तवाजिनम् ।
अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः
अथोपस्पृश्य सलिलं सन्दधे तत् समाहितः ।
अजानन्न् अपि संहारं प्राणकृच्छ्र उपस्थिते
ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् ।
प्राणापदम् अभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह
भ्प्_01.07.022।0 अर्जुन उवाच
कृष्ण कृष्ण महाबाहो भक्तानाम् अभयङ्कर ।
त्वम् एको दह्यमानानाम् अपवर्गो ऽसि संसृतेः
त्वम् आद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः ।
मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि
स एव जीवलोकस्य मायामोहितचेतसः ।
विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम्
तथायं चावतारस्ते भुवो भारजिहीर्षया ।
स्वानां चानन्यभावानाम् अनुध्यानाय चासकृत्
किम् इदं स्वित् कुतो वेति देवदेव न वेद्म्यहम् ।
सर्वतो मुखम् आयाति तेजः परमदारुणम्
भ्प्_01.07.027।0 श्रीभगवान् उवाच
वेत्थेदं द्रोणपुत्रस्य ब्राह्मम् अस्त्रं प्रदर्शितम् ।
नैवासौ वेद संहारं प्राणबाध उपस्थिते
न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् ।
जह्यस्त्रतेज उन्नद्धम् अस्त्रज्ञो ह्यस्त्रतेजसा
भ्प्_01.07.029।0 सूत उवाच
श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा ।
स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे
संहत्यान्योन्यम् उभयोस्तेजसी शरसंवृते ।
आवृत्य रोदसी खं च ववृधाते ऽर्कवह्निवत्
दृष्ट्वास्त्रतेजस्तु तयोस्त्रील् लोकान् प्रदहन् महत् ।
दह्यमानाः प्रजाः सर्वाः सांवर्तकम् अमंसत
प्रजोपद्रवम् आलक्ष्य लोकव्यतिकरं च तम् ।
मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम्
तत आसाद्य तरसा दारुणं गौतमीसुतम् ।
बबन्धामर्षताम्राक्षः पशुं रशनया यथा
शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् ।
प्राहार्जुनं प्रकुपितो भगवान् अम्बुजेक्षणः
मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुम् इमं जहि ।
यो ऽसावनागसः सुप्तान् अवधीन् निशि बालकान्
मत्तं प्रमत्तम् उन्मत्तं सुप्तं बालं स्त्रियं जडम् ।
प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित्
स्वप्राणान् यः परप्राणैः प्रपुष्णात्यघृणः खलः ।
तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान्
प्रतिश्रुतं च भवता पाञ्चाल्यै शृण्वतो मम ।
आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा
तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा ।
भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः
भ्प्_01.07.040।0 सूत उवाच
एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः ।
नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान्
अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः ।
न्यवेदयत् तं प्रियायै शोचन्त्या आत्मजान् हतान्
तथाहृतं पशुवत् पाशबद्धम् अवाङ्मुखं कर्मजुगुप्सितेन ।
निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च
उवाच चासहन्त्यस्य बन्धनानयनं सती ।
मुच्यतां मुच्यताम् एष ब्राह्मणो नितरां गुरुः
सरहस्यो धनुर्वेदः सविसर्गोपसंयमः ।
अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात्
स एष भगवान् द्रोणः प्रजारूपेण वर्तते ।
तस्यात्मनो ऽर्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपी
तद्धर्मज्ञ महाभाग भवद्भिर्गौरवं कुलम् ।
वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यम् अभीक्ष्णशः
मा रोदीदस्य जननी गौतमी पतिदेवता ।
यथाहं मृतवत्सार्ता रोदिम्यश्रुमुखी मुहुः
यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः ।
तत् कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम्
भ्प्_01.07.049।0 सूत उवाच
धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् ।
राजा धर्मसुतो राज्ञ्याःप्रत्यनन्दद्वचो द्विजाः
नकुलः सहदेवश्च युयुधानो धनञ्जयः ।
भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः
तत्राहामर्षितो भीमस्तस्य श्रेयान् वधः स्मृतः ।
न भर्तुर्नात्मनश्चार्थे यो ऽहन् सुप्तान् शिशून् वृथा
निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः ।
आलोक्य वदनं सख्युरिदम् आह हसन्न् इव
भ्प्_01.07.053।0 श्रीभगवान् उवाच
ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणः ।
मयैवोभयम् आम्नातं परिपाह्यनुशासनम्
कुरु प्रतिश्रुतं सत्यं यत् तत् सान्त्वयता प्रियाम् ।
प्रियं च भीमसेनस्य पाञ्चाल्या मह्यम् एव च
भ्प्_01.07.055।0 सूत उवाच
अर्जुनः सहसाज्ञाय हरेर्हार्दम् अथासिना ।
मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम्
विमुच्य रशनाबद्धं बालहत्याहतप्रभम् ।
तेजसा मणिना हीनं शिबिरान् निरयापयत्
वपनं द्रविणादानं स्थानान् निर्यापणं तथा ।
एष हि ब्रह्मबन्धूनां वधो नान्यो ऽस्ति दैहिकः
पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया ।
स्वानां मृतानां यत् कृत्यं चक्रुर्निर्हरणादिकम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0