भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 01.06

01.06.001

भ्प्_01.06.001।0 सूत उवाच
एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च ।
भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः

01.06.002

भ्प्_01.06.002।0 व्यास उवाच
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव ।
वर्तमानो वयस्याद्ये ततः किम् अकरोद्भवान्

01.06.003

स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः ।
कथं चेदम् उदस्राक्षीः काले प्राप्ते कलेवरम्

01.06.004

प्राक्कल्पविषयाम् एतां स्मृतिं ते मुनिसत्तम ।
न ह्येष व्यवधात् काल एष सर्वनिराकृतिः

01.06.005

भ्प्_01.06.005।0 नारद उवाच
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम ।
वर्तमानो वयस्याद्ये तत एतदकारषम्

01.06.006

एकात्मजा मे जननी योषिन् मूढा च किङ्करी ।
मय्यात्मजे ऽनन्यगतौ चक्रे स्नेहानुबन्धनम्

01.06.007

सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती ।
ईशस्य हि वशे लोको योषा दारुमयी यथा

01.06.008

अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया ।
दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः

01.06.009

एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि ।
सर्पो ऽदशत् पदा स्पृष्टः कृपणां कालचोदितः

01.06.010

तदा तदहम् ईशस्य भक्तानां शम् अभीप्सतः ।
अनुग्रहं मन्यमानः प्रातिष्ठं दिशम् उत्तराम्

01.06.011

स्फीताञ् जनपदांस्तत्र पुरग्रामव्रजाकरान् ।
खेटखर्वटवाटीश्च वनान्युपवनानि च

01.06.012

चित्रधातुविचित्राद्रीन् इभभग्नभुजद्रुमान् ।
जलाशयाञ् छिवजलान् नलिनीः सुरसेविताः

01.06.013

चित्रस्वनैः पत्ररथैर्विभ्रमद्भ्रमरश्रियः ।
नलवेणुशरस्तन्ब कुशकीचकगह्वरम्

01.06.014

एक एवातियातो ऽहम् अद्राक्षं विपिनं महत् ।
घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम्

01.06.015

परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः ।
स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः

01.06.016

तस्मिन् निर्मनुजे ऽरण्ये पिप्पलोपस्थ आश्रितः ।
आत्मनात्मानम् आत्मस्थं यथाश्रुतम् अचिन्तयम्

01.06.017

ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा ।
औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन् मे शनैर्हरिः

01.06.018

प्रेमातिभरनिर्भिन्न पुलकाङ्गो ऽतिनिर्वृतः ।
आनन्दसम्प्लवे लीनो नापश्यम् उभयं मुने

01.06.019

रूपं भगवतो यत् तन् मनःकान्तं शुचापहम् ।
अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्मना इव

01.06.020

दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि ।
वीक्षमाणो ऽपि नापश्यम् अवितृप्त इवातुरः

01.06.021

एवं यतन्तं विजने माम् आहागोचरो गिराम् ।
गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्न् इव

01.06.022

हन्तास्मिञ् जन्मनि भवान् मा मां द्रष्टुम् इहार्हति ।
अविपक्वकषायाणां दुर्दर्शो ऽहं कुयोगिनाम्

01.06.023

सकृद्यद्दर्शितं रूपम् एतत् कामाय ते ऽनघ ।
मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान्

01.06.024

सत्सेवयादीर्घयापि जाता मयि दृढा मतिः ।
हित्वावद्यम् इमं लोकं गन्ता मज्जनताम् असि

01.06.025

मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।
प्रजासर्गनिरोधे ऽपि स्मृतिश्च मदनुग्रहात्

01.06.026

एतावदुक्त्वोपरराम तन् महद् भूतं नभोलिङ्गम् अलिङ्गम् ईश्वरम् ।
अहं च तस्मै महतां महीयसे शीर्ष्णावनामं विदधे ऽनुकम्पितः

01.06.027

नामान्यनन्तस्य हतत्रपः पठन् गुह्यानि भद्राणि कृतानि च स्मरन् ।
गां पर्यटंस्तुष्टमना गतस्पृहः कालं प्रतीक्षन् विमदो विमत्सरः

01.06.028

एवं कृष्णमतेर्ब्रह्मन् नासक्तस्यामलात्मनः ।
कालः प्रादुरभूत् काले तडित् सौदामनी यथा

01.06.029

प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
आरब्धकर्मनिर्वाणो न्यपतत् पाञ्चभौतिकः

01.06.030

कल्पान्त इदम् आदाय शयाने ऽम्भस्युदन्वतः ।
शिशयिषोरनुप्राणं विविशे ऽन्तरहं विभोः

01.06.031

सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः ।
मरीचिमिश्रा ऋषयः प्राणेभ्यो ऽहं च जज्ञिरे

01.06.032

अन्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रतः ।
अनुग्रहान् महाविष्णोरविघातगतिः क्वचित्

01.06.033

देवदत्ताम् इमां वीणां स्वरब्रह्मविभूषिताम् ।
मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम्

01.06.034

प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि

01.06.035

एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः ।
भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम्

01.06.036

यमादिभिर्योगपथैः कामलोभहतो मुहुः ।
मुकुन्दसेवया यद्वत् तथात्माद्धा न शाम्यति

01.06.037

सर्वं तदिदम् आख्यातं यत् पृष्टो ऽहं त्वयानघ ।
जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम्

01.06.038

भ्प्_01.06.038।0 सूत उवाच
एवं सम्भाष्य भगवान् नारदो वासवीसुतम् ।
आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः

01.06.039

अहो देवर्षिर्धन्यो ऽयं यत्कीर्तिं शार्ङ्गधन्वनः ।
गायन् माद्यन्न् इदं तन्त्र्या रमयत्यातुरं जगत्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc