भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीताभाष्य · अध्याय 4

4.1

इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् ।
विवस्वान् मनवे प्राह मनुर् ईक्षवाकवे ऽब्रवीत् ॥

4.2

एवं परम्पराप्राप्तम् इमं राजर्षयो ऽविदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥

4.3

स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः ।
भक्तो ऽस्ति मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् ॥

4.4

अवरं भवतो जन्म परं जन्म विवस्वतः ।
कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥

4.5

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥

4.6

अजो ऽपि सन् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् ।
प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्ममायया ॥

4.7

यदा यदा हि धर्मस्य ग्लानिर् भवति भारत ।
अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥

4.8

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥

4.9

जन्म कर्मं च मे दिव्यम् एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति माम् एति सो ऽर्जुन ॥

4.10

वीतरागभयक्रोधा मन्मया माम् उपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावन् आगताः ॥

4.11

ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥

4.12

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ॥

4.13

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥

4.14

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते ॥

4.15

एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥

4.16

किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः ।
तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥

4.17

कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ॥

4.18

कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः ।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥

4.19

यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तम् आहुः पण्डितं बुधाः ॥

4.20

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्य् अभिप्रवृत्तो ऽपि नैव किंचित् करोति सः ॥

4.21

निराशीर् यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥

4.22

यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ॥

4.23

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥

4.24

ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥

4.25

दैवम् एवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ॥

4.26

श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति ।
शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु जुह्वति ॥

4.27

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥

4.28

द्रव्ययज्ञास् तपोयज्ञा योगयज्ञास् तथापरे ।
स्वाध्यायज्ञानयज्ञाश् च यतयः संशितव्रताः ॥

4.29

अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥

4.30ab

अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति ।

4.30cd

सर्वे ऽप्य् एते यज्ञविदो यज्ञक्षपितकल्मषाः ॥

4.31ab

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।

4.31cd

नायं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरुसत्तम ॥

4.32

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥

4.33

श्रेयान् द्रव्यमयाद् यज्ञाज् ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥

4.34

तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्वदर्शिनः ॥

4.35

यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव ।
येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥

4.36

अपि चेद् असि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥

4.37

यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥

4.38

न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते ।
तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥

4.39

श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा पराम् शान्तिम् अचिरेणाधिगच्छति ॥

4.40

अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति ।
नायं लोको ऽस्ति न परो न सुखं संशयात्मनः ॥

4.41

योगसंन्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥

4.42

तस्माद् अज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥

मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc