भगवद्गीताभाष्य · अध्याय 3
ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन ।
तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥
व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे ।
तद् एकं वद, निश्चित्य येन श्रेयो ऽहम् आप्नुयाम् ॥
लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥
न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते ।
न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥
न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्मकृत् ।
कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः ॥
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥
यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगम् असक्तः स विशिष्यते ॥
नियतं कुरु कर्म त्वं कर्मं ज्यासयो ह्य् अकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येद् अकर्मणः ॥
यज्ञार्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गस् समाचर ॥
सह यज्ञैः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्टकामधुक् ॥
देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥
यज्ञशिष्टाशिनस् सन्तो मुच्यन्ते सर्वकिल्विषैः ।
ते त्व् अघं भुञ्जते पापा ये पचन्त्य् आत्मकारणात् ॥
अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्नसंभवः ।
यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति ॥
यस् त्व् आत्मरतिर् एव स्याद् आत्मतृप्तश् च मानवः ।
आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिद् अर्थव्यपाश्रयः ॥
तस्माद् असक्तस् सततं कार्यं कर्म समाचर ।
असक्तो ह्य् आचरन् कर्म परम् आप्नोति पुरुषः ॥
कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः ।
लोकसंग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि ॥
यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः ।
स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥
यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् ।
संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥
सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोकसंग्रहम् ॥
न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनाम् ।
जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥
प्रकृतेः क्रियमाणाणि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहम् इति मन्यते ॥
तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥
प्रकृतेर् गुणसंमूढाः सज्जन्ते गुणकर्मसु ।
तान् अकृत्स्नविदो मन्दान् कृत्स्नविन् न विचालयेत् ॥
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर् निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥
ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥
ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस् तान् विद्धि नष्टान् अचेतसः ॥
सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥
अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः ।
अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्य् एनम् इह वैरिणम् ॥
धूमेनाव्रियते वह्निर् यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ॥
आवृतं ज्ञानम् एतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥
इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते ।
एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥
तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्य् एनं ज्ञानविज्ञाननाशनम् ॥
इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः ।
मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥
मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0