भगवद्गीताभाष्य · अध्याय 2
तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः ॥
कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् ।
अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन ॥
मा क्लैब्यं गच्छ कौन्तेय नैतत् त्वय्य् उपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥
कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ॥
गुरून् अहत्वा हि महानुभावान् श्रेयश् चर्तुं भैक्षम् अपीह लोके ।
हत्वार्थकामांस् तु गुरून् इहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥
न चैतद् विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः ।
यान् एव हत्वा न जिजीविषामस् ते ऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वा धर्मसंमूढचेताः ।
यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम् ॥
न हि प्रपश्यामि ममापनुद्याद् यच् छोकम् उच्छोषणम् इन्द्रियाणाम् ।
अवाप्य भूमाव् असपत्नम् ऋद्धं राज्यं सुराणाम् अपि चाधिपत्यम् ॥
एवम् उक्त्वा हृशीकेशं गुडाकेशः परन्तपः ।
न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ॥
तम् उवाच हृशीकेशः प्रहसन्न् इव भारत ।
सेनयोर् उभयोर् मध्ये सीदमानम् इदं वचः ॥
अशोच्यान् अन्वशोचस् त्वं प्रज्ञावादांश् च भाषसे ।
गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥
न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥
देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर् धीरस् तत्र न मुह्यति ॥
मात्रास्पर्शास् तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनो ऽनित्यास् तांस् तितिक्षस्व भारत ॥
यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सो ऽमृतत्वाय कल्पते ॥
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्वदर्शिभिः ॥
अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् ।
विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥
य एनं वेत्ति हन्तारं यश् चैनन् मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥
न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥
वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि ।
तथा शरीराणि विहाय जीर्णान्य् अन्यानि संयाति नवानि देही ॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥
अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च ।
नित्यस् सर्वगतः स्थाणुर् अचलो ऽयं सनातनः ॥
अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते ।
तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ॥
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो! नैवं शोचितुम् अर्हसि ॥
जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च ।
तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्य् एव तत्र का परिदेवना ॥
आश्चर्यवत् पश्यति कश्चिद् एनम् आश्चर्यवद् वदति तथैव चान्यः ।
आश्चर्यवच् चैनम् अन्यः शृणोति श्रुत्वाप्य् एनं वेद न चैव कश्चित् ॥
देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत ।
तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥
स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि ।
धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते ॥
यदृच्छया चोपपन्नं स्वर्गद्वारम् अपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥
अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥
अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम् ।
संभावितस्य चाकीर्तिः मरणाद् अतिरिच्यते ॥
भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लौघवम् ॥
अवाच्यवादांश् च बहून् वदिष्यन्ति तवाहिताः ।
निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥
हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥
एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥
नेहाभिक्रमनाशो ऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥
व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन ।
बहुशाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम् ॥
याम् इमाम् पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः ।
वेदवादरताः पार्थ नान्यद् अस्तीति वादिनः ॥
कामात्मानः स्वर्गपराः जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगाइश्वर्यगतिं प्रति ॥
भोगाइश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥
यावान् अर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥
कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर् भूः मा ते सङ्गो ऽस्त्व् अकर्मणि ॥
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥
दूरेण ह्य् अवरं कर्म बुद्धियोगाद् धनञ्जय ।
बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः ॥
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥
यदा ते मोहकलिलं बुद्धिर् व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि ॥
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषते किम् आसीत व्रजेत किम् ॥
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्मन्य् एवात्मना तुष्टः स्थितप्रज्ञस् तदोच्यते ॥
दुःखेष्व् अनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर् मुनिर् उच्यते ॥
यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
यदा संहरते चायं कूर्मो ऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥
यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥
ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते ।
सङ्गात् संजायते कामः कामात् क्रोधो ऽभिजायते ॥
क्रोधाद् भवति संमोहः संमोहात् स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥
रागद्वेषवियुक्तैस् तु विषयान् इन्द्रियैश् चरन् ।
आत्मवश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥
प्रसादे सर्वदुःखानां हानिर् अस्योपजायते ।
प्रसन्नचेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥
नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥
इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते ।
तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥
तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥
आपूर्यमाणम् अचलप्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् ।
तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न कामकामी ॥
विहाय कामान् यः सर्वान् पुमांश् चरति निस्स्पृहः ।
निर्ममो निरहङ्कारः स शान्तिम् अधिगच्छति ॥
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्याम् अन्तकाले ऽपि ब्रह्मनिर्वाणम् ऋच्छति ॥
मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0