भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीताभाष्य · अध्याय 1

1.1

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश् चैव किम् अकुर्वत सञ्जय ॥

1.2

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा ।
आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥

1.3

पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥

1.4

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश् च द्रुपदश् च महारथः ॥

1.5

धृष्टकेतुश् चेकितानः काशीराजश् च वीर्यवान् ।
पुरुजित्कुन्तिभोजश् च शैब्यश् च नरपुङ्गवः ॥

1.6

युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान् ।
सौभद्रो द्रौपदेयाश् च सर्व एव महारथाः ॥

1.7

अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥

1.8

भवान् भीष्मश् च कर्णश् च कृपश् च समितिञ्जयः ।
अश्वत्थामा विकर्णश् च सौमदत्तिस् तथैव च ॥

1.9

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणास् सर्वे युद्धविशारदाः ॥

1.10

अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् ॥

1.11

अयनेषु च सर्वेषु यथाभागम् अवस्थिताः ।
भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥

1.12

तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥

1.13

ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत् ॥

1.14

ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥

1.15

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥

1.16

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश् च सुघोषमणिपुष्पकौ ॥

1.17

काश्यश् च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः ॥

1.18

द्रुपदो द्रौपदेयाश् च सर्वतः पृथिवीपते ।
सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥

1.19

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश् च पृथिवीं चैव तुमुलो ऽप्य् अनुनादयन् ॥

1.20

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुर् उद्यम्य पाण्डवः ॥

1.21

हृषीकेशं तदा वाक्यम् इदम् आह महीपते ।
सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत ॥

1.22

यावद् एतान् निरीक्षे ऽहं योद्धुकामान् अवस्थितान् ।
कैर् मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे ॥

1.23

योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रियचिकीर्षवः ॥

1.24

एवम् उक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम् ॥

1.25

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति ॥

1.26ab

तत्रापश्यत् स्थितान् पार्थः पित्qन् अथ पितामहान् ।

1.26cd

आचार्यान् मातुलान् भ्रात्qन् पुत्रान् पौत्रान् सखींस् तथा ॥

1.27

श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि ।
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥

1.28

कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् ।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥

1.29

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश् च शरीरे मे रोमहर्षश् च जायते ॥

1.30

गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ।
न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः ॥

1.31

निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे ॥

1.32

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा ॥

1.33

येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च ॥

1.34

आचार्याः पितरः पुत्रास् तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस् तथा ॥

1.35

एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूधन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥

1.36

निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन ।
पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः ॥

1.37

तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् सबान्धवान् ।
स्वजनं हि कथम् हत्वा सुखिनः स्याम माधव ॥

1.38

यद्य् अप्य् एते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥

1.39

कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर् ञनार्दन ॥

1.40

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत ॥

1.41

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥

1.42

सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्य् एषां लुप्तपिण्डोदकक्रियाः ॥

1.43

दोषैर् एतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश् च शाश्वताः ॥

1.44

उत्सन्नकुलधर्माणां मनुष्याणां ञनार्दन ।
नरके नियतं वासो भवतीत्य् अनुशुश्रुम ॥

1.45

अहो बत महत् पापं कर्तुं व्यवसिता वयम् ।
यद् राज्यसुखलाभेन हन्तुं स्वजनम् उद्यताः ॥

1.46

यदि माम् अप्रतीकारम् अशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् ॥

1.47

एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥

1.10

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।

मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc