भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीताभाष्य · अध्याय 9

9.1

इदं तु गुह्यतमं प्रवक्ष्याम्य् अनसूयवे ।
ज्ञानं विज्ञानसहितं यज् ज्ञात्वा मोक्षसे ऽशुभात् ॥

9.2

राजविद्या राजगुह्यं पवित्रम् इदम् उत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥

9.3

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥

9.4

मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्व् अवस्थितः ॥

9.5

न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ।
भूतभृन् न च भूतस्थो ममात्मा भूतभावनः ॥

9.6

यथा+आकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्य् उपधारय ॥

9.7

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ॥

9.8

प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥

9.9

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ॥

9.10

मया+अध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुना+अनेन कौन्तेय जगद् धि परिवर्तते ॥

9.11

अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् ।
परं भावम् अजानन्तो मम भूतमहेश्वरम् ॥

9.12

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥

9.13

महात्मानस् तु माम् पार्थ दैवीं प्रकृतिम् आश्रिताः ।
भजन्त्य् अनन्यमनसो ज्ञात्वा भूतादिम् अव्ययम् ॥

9.14

सततं कीर्तयन्तो मां यतन्तश् च दृढव्रताः ।
नमस्यन्तश् च मां भक्त्या नित्ययुक्ता उपासते ॥

9.15

ज्ञानयज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥

9.16

अहं क्रतुर् अहं यज्ञः स्वधा+अहम् अहम् औषधम् ।
मन्त्रो ऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम् ॥

9.17

पिता+अहम् अस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रम् ओङ्कार ऋक् साम यजुर् एव च ॥

9.18

गतिर् भर्ता प्रभुस् साक्षी निवासश् शरणं सुहृत् ।
प्रभवप्रलयस्थानं निधानं बीजम् अव्ययम् ॥

9.19

तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् इत्य् उत्सृज्यामि च ।
अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन ॥

9.20

त्रैविद्या मां सोमपाः पूतपापाः यज्ञैर् इष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् ॥

9.21

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्मम् अनुप्रपन्नाः गतागतं कामकामा लभन्ते ॥

9.22

अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्य् अहम् ॥

9.23

ये त्व् अन्यदेवताभक्ता यजन्ते श्रद्धया+अन्विताः ।
ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधिपूर्वकम् ॥

9.24

अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च ।
न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥

9.25

यान्ति देवव्रता देवान् पित्qन् यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्याः यान्ति मद्याजिनो ऽपि माम् ॥

9.26

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद् अहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः ॥

9.27

यत् करोषि यद् अश्नासि यज् जहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् ॥

9.28

शुभाशुभफलैर् एवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो माम् उपैष्यसि ॥

9.29

समो ऽहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥

9.30

अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् ।
साधुर् एव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥

9.31

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥

9.32

मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ॥

9.33

किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा ।
अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥

9.34

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः ॥

मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc