भगवद्गीता · अध्याय 94
श्रीधरः : किं च भवाप्ययाव् इति । भूतानां भवाप्ययौ सृष्टि-प्रलयौ त्वत्तः सकाशाद् एव भवतः । इति श्रुतं मया । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा इत्य् आदौ । विस्तरशः पुनः पुनः । कमलस्य पत्रे इव सुप्रसन्ने विशाले अक्षिणी यस्य तव हे कमल-पत्राक्ष ! माहात्म्यम् अपि चाव्ययम् अक्षयं श्रुतम् । विश्व-सृष्ट्य्-आदि-कर्तृत्वे ऽपि सर्व-नियन्तृत्वे ऽपि शुभाशुभ-कर्म-कारयितृत्वे ऽपि बन्ध-मोक्षादि-विचित्र-फल-दातृत्वे ऽपि अविकारावैधर्म्यासङ्गौदासीन्यादि-लक्षणम् अपरिमितं महत्त्वं च श्रुतम् - अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम्
अबुद्धयः इति । मया ततम् इदं सर्वम् इति । न च मां तानि कर्माणि निबध्नन्ति इति । समो ऽहं सर्व-भूतेषु इत्य् आदिना । अतस् त्वत्-परतन्त्रत्वाद् अपि जीवानाम् अहं कर्तेत्य् आदिर् मदीयो मोहो विगत इति भावः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0