भगवद्गीता · अध्याय 95
मधुसूदनः : तथा सप्तमाद् आरभ्य दशम-पर्यन्तं तत्-पदार्थ-निर्णय-प्रधानम् अपि भगवतो वचनं मया श्रुतम् इत्य् आह भवाप्ययाव् इति । भूतानां भवाप्ययाव् उत्पत्ति-प्रलयौ त्वत्त एव भवन्तौ त्वत्त एव विस्तरशो मया श्रुतौ न तु संक्षेपेणासकृद् इत्य् अर्थः । कमलस्य पत्रे इव दीर्घे रक्तान्ते परम-मनोरमे अक्षिणी यस्य तव स त्वं हे कमल-पत्राक्ष ! अतिसौन्दर्यातिशयोल्लेखो ऽयं प्रेमातिशयात् । न केवलं भवाप्ययौ त्वत्तः श्रुतौ महात्मनस् तव भावो माहात्म्यम् अतिशयैश्वर्यं विश्व-सृष्ट्य्-आदि-कर्तृत्वे ऽप्य् अविकारे त्वं शुभाशुभ-कर्म-कारयितृत्वे ऽप्य् अवैषम्यं बन्ध-मोक्षादि-विचित्र-फल-दातृत्वे
ऽप्य् असङ्गौदासीन्यम् अन्यद् अपि सर्वात्मत्वादि सोपाधिकं निरुपाधिकम् अपि चाव्ययम् अक्षयं मया श्रुतम् इति परिणतम् अनुवर्तते च-कारात्
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0