भगवद्गीता · अध्याय 93
बलदेवः :
एकादशे विश्व-रूपं विलोक्य त्रस्त-धीः स्तुवन् ।
दर्शयित्वा स्वकं रूपं हरिणा हर्षितो ऽर्जुनः ॥
पूर्वत्र अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः इति विभूति-कथनोपक्रमे विष्टभ्याहम् इदं कृत्स्नम् इति तद्-उपसंहारे च निखिल-विभूत्य्-आश्रयो महत्-स्रष्टा पुरुषः स्वस्य कृष्णस्यावतारः, स तु महत्-स्रष्टादि-सर्वावतारीति तन्-मुखात् प्रतीत्य सख्यानन्द-सिन्धु-निमग्नो ऽर्जुनस् तत्-पुरुष-रूपं दिदृक्षुः कृष्णोक्तम् अनुवदति मद् इति । मद्-अनुग्रहायाध्यात्म-संज्ञितम् विभूति-विषयकं यद् वचस् त्वयोक्तं तेन मम मोहः कथं विद्याम् इत्य्-आद्य्-उक्तो विगतो नष्टः । अध्यात्मम् आत्मनि परमात्मनि त्वयि या विभूति-लक्षणा संज्ञा सा
जाता । यस्य तद्-वचः विभक्त्य्-अर्थे ऽव्ययीभावः । परमं गुह्यम् अतिरहस्यं त्वद्-अन्यागम्यम् इत्य् अर्थः
भ्ग् 11.2
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमल-पत्राक्ष माहात्म्यम् अपि चाव्ययम्
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0