भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 92

92.1

विश्वनाथः :
एकादशे विश्वरूपं दृष्ट्वा सम्भ्रान्त-धीः स्तुवन् ।
पार्थ आनन्दितो दर्शयित्वा स्वं हरिणा पुनः ॥
पूर्वाध्यायान्ते विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति सर्व-विभूत्य्-आश्रयम् आदि-पुरुषं स्व-प्रिय-सखस्यांशं श्रुत्वा परमानन्द-निमग्नस् तद्-रूपं दिदृक्षमाणो भगवद्-उक्तम् अभिनन्दति मद्-अनुग्रहायेति त्रिभिः । अध्यात्मं इति सप्तम्य्-अर्थे अव्ययीभावाद् आत्मनीत्य् अर्थः । आत्मनि या या संज्ञा विभूति-लक्षणा सा संजाता यस्य तद्-वचः । मोहस् तद्-ऐश्वर्याज्ञानम्

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc