भगवद्गीता · अध्याय 91
मधुसूदनः : पूर्वाध्याये नाना-विभूतीर् उक्त्वा विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति विश्वात्मकं पारमेश्वरं रूपं भगवताभिहितं श्रुत्वा परमोत्कण्ठितस् तत्-साक्षात्कर्तुम् इच्छन् पूर्वोक्तम् अभिनन्दन् मद् इति । मद्-अनुग्रहाय शोक-निवृत्त्य्-उपकाराय परमं निरतिशय-पुरुषार्थ-पर्यवसायि गुह्यं गोप्यं यस्मै कस्मैचिद् वक्तुम् अनर्हम् अपि । अध्यात्म-संज्ञितम् अध्यात्मम् इति शब्दितम् आत्मानात्म-विवेक-विषयम् अशोच्यान् अन्वशोचस् त्वम् इत्य् आदि-षष्ठाध्याय-पर्यन्तं त्व् अपदार्थ-प्रधानं यत् त्वया परम-कारुणिकेन सर्वज्ञेनोक्तं वचो वाक्यं तेन वाक्येनाहम् एषां
हन्ता मयैते हन्यन्त इत्य् आदिविविध-विपर्यास-लक्षणो मोहो ऽयम् अनुभव-साक्षिको विगतो विनष्टो मम । तत्रासकृद् आत्मनः सर्व-विक्रिया-शून्यत्वोक्तेः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0