भगवद्गीता · अध्याय 90
श्रीधरः :
विभूति-वैभवं प्रोच्य कृपया परया हरिः ।
दिदृक्षोर् अर्जुनस्याथ विश्व-रूपम् अदर्शयत् ॥
पूर्वाध्यायान्ते विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति विश्वात्मकं पारमेश्वरं रूपम् उत्क्षिप्तम् । तद्-दिदृक्षुः पूर्वोक्तम् अभिनन्दन्न् अर्जुन उवाच मद्-अनुग्रहायेति चतुर्भिः । मद्-अनुग्रहाय शोक-निवृत्तये । परमं परमात्म-निष्ठं गुह्यं गोप्यम् अपि अध्यात्म-संज्ञितम् आत्मानात्म-विवेक-विषयम् । यत् त्वयोक्तं वचः अशोच्यान् अन्वशोचस् त्वम् इत्य् आदि षष्ठाध्याय-पर्यन्तं यद् वाक्यम् । तेन ममायं मोहः - अहं हन्ता एते हन्यन्ते इत्य् आदि लक्षणो भ्रमः । विगतो विनष्टः । आत्मनः
कर्तृत्वाद्य्-अभावोक्तेः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0