भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 84

84.1

बलदेवः :
सप्तमादौ निजैश्वर्यं भक्ति-हेतुं यद् ईरितम् ।
विभूति-कथनेनात्र दशमे तत् प्रपुष्यते ॥
पूर्व-पूर्वत्र स्वैश्वर्य-निरूपण-संभिन्ना सपरिकरा स्व-भक्तिर् उपदिष्टा । इदानीं तस्या उत्पत्तये विवृद्धये च स्वासाधरणीः प्राक् संक्षिप्योक्ताः स्व-विभूति-विस्तरेण वर्णयिष्यन् भगवान् उवाच भूय इति । हे महाबाहो ! भूय एव पुनर् अपि मे परमं वचः शृणु । शृण्वन्तं प्रति शृण्व् इत्य् उक्तिर् उपदेश्ये ऽर्थे समवधानाय । परमं श्रीमत् मद्-दिव्य-विभूति-विषयकं यद् वचस् ते तुभ्यम् अहं हित-काम्यया वक्ष्यामि । क्रियार्थोपपद इत्य् आदि सूत्राच् चतुर्थी । विज्ञम् अपि त्वां विस्मितं कर्तुम् इत्य् अर्थः । हित-काम्यया मद्-भक्त्य्-उत्पत्ति-तद्-वृद्धि-रूप-त्वत्-कल्याण-वाञ्छा । ते कीदृशायेत्य् आह प्रीयमाणायेति पीयूष-पानाद्
इव मद्-वाक्यात् प्रीतिं विन्दते

84.2

भ्ग् 10.2
न मे विदुः सुर-गणाः प्रभवं न महर्षयः
अहम् आदिर् हि देवानां महर्षीणां च सर्वशः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc