भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 85

85.2

श्रीधरः : उक्तस्यापि पुनर् वचने दुर्ज्ञेयत्वं हेतुम् आह न मे विदुर् इति । मे मम प्रकृष्टं भवं जन्म-रहितस्यापि नाना-विभूतिभिर् आविर्भावं सुर-गणा अपि महर्षयो ऽपि भृग्व्-आदयो न जानन्ति । तत्र हेतुः -- अहं हि सर्व-देवानां महर्षीणां चादिः कारणम् । सर्वशः सर्वैः प्रकारैः उत्पादकत्वेन बुद्ध्य्-आदि-प्रवर्तकत्वेन च । अतो मद्-अनुग्रहं विना मां के ऽपि न जानन्तीत्य् अर्थः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc