भगवद्गीता · अध्याय 83
विश्वनाथः :
ऐश्वरं ज्ञापयित्वोचे भक्तिं यत् सप्तमादिषु ।
स-रहस्यं तद् एवोक्तं दशमे स-विभूतिकम् ॥
आराध्यत्व-ज्ञान-कारणम् ऐश्वर्यं यद् एव पूर्वत्र सप्तमादिषूक्तम् । तद् एव स-विशेषं भक्ति-मताम् आनन्दार्थं प्रपञ्चयिष्यन् परोक्ष-वादा ऋषयः परोक्षं च मम प्रियम् [भ्प् 11.21.35] इति न्यायेन किञ्चिद् दुर्बोधतयैवाह भूय इति । पुनर् अपि राज-विद्या-राज-गुह्यम् इदम् उच्यते इत्य् अर्थः । हे महाबाहो ! इति यथा बाहु-बलः सर्वाधिक्येन त्वया प्रकाशितं, तथैवैतद् बुद्ध्या बुद्धि-बलम् अपि सवार्धिक्येन प्रकाशयितव्यम् इति भावः । शृण्व् इति शृण्वन्तम् अपि तं वक्ष्यमाणे ऽर्थे सम्यग् अवधारणार्थम् । परमं पूर्वोक्ताद् अप्य् उत्कृष्टम् । ते त्वाम् अतिविस्मितीकर्तुं क्रियार्थोपपदस्य च [पाण् 2.3.14] इति चतुर्थी
। यतः प्रीयमाणाय प्रेमवते
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0