भगवद्गीता · अध्याय 82
मधुसूदनः : एवं सप्तमाष्टम-नवमैस् तत्-पदार्थस्य भगवतस् तत्त्वं सोपाधिकं निरुपाधिकं च दर्शितम् । तस्य च विभूतयः सोपाधिकस्य ध्याने निरुपाधिकस्य ज्ञाने चोपाय-भूता रसो ऽहम् अप्सु कौन्तेय [गीता 7.8] इत्य् आदिना सप्तमे, अहं क्रतुर् अहं यज्ञ [गीता 9.16] इत्य् आदिना नवमे च सङ्क्षेपेणोक्ताः । अथेदानीं तासां विस्तरो वक्तव्यो भगवतो ध्यानाय तत्त्वम् अपि दुर्विज्णियत्वात् पुनस् तस्य वक्तव्यं ज्ञानायेति दशमो ऽध्याय आरभ्यते । तत्र प्रथमम् अर्जुनं प्रोत्साहयितुम् भूय एवेति । भूय एव पुनर् अपि हे महाबाहो शृणु मे मम परमं प्रकृष्टं वचः । यत् ते तुभ्यं प्रीयमाणाय मद्-वचनाद्
अमृत-पानाद् इव प्रीतम् अनुभवते वक्ष्याम्य् अहं परमाप्तस् तव हित-काम्ययेष्ट-प्राप्तीच्छया
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0