भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 81

81.1

श्रीधरः :
उक्ताः सङ्क्षेपतः पूर्वं सप्तमादौ विभूतयः ।
दशमे ता वितन्यन्ते सर्वत्रेश्वर-दृष्टये ॥
एवं तावत् सप्तमादिभिर् अध्यायैर् भजनीयं परमेश्वर-तत्त्वं निरूपितम् । तद्-विभूतयश् च सप्तमे रसो ऽहम् अप्सु कौन्तेय [गीता 7.8] इत्य् आदिना सङ्क्षेपतो दर्शिताः । अष्टमे च अधियज्ञो ऽहम् एवात्र [गीता 8.4] इत्य् आदिना । नवमे च अहं क्रतुर् अहं यज्ञ [गीता 9.16] इत्य् आदिना । इदानीं ता एव विभूतीः प्रपञ्चयिष्यन् स्व-भक्तेश् चावश्य-करणीयत्वं वर्णयिष्यन् भगवान् उवाच भूय एवेति । महान्तौ युद्धादि-स्वधर्मानुष्ठाने महत्-परिचर्यायां वा कुशलौ बाहू यस्य तथा हे महाबाहो ! भूय एव पुनर् अपि मे वचः शृणु । कथम्भूतम् ? परमं परमात्म-निष्ठम् । मद्-वचनामृतेनैव प्रीतिं प्रापुन्वते ते तुभ्यं
हित-काम्यया हितेच्छया यद् अहं वक्ष्यामि

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc