भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 77

77.2

मधुसूदनः - पुनस् तदाभिमुख्याय तज्-ज्ञानं स्तौति राजेति । राज-विद्या सर्वासां विद्यानां राजा सर्वाविद्यानाशकत्वात् । विद्यान्तरस्याविद्यैक-देश-विरोधित्वात् । तथा राज-गुह्यं सर्वेषां गुह्यानां राजा । अनेक-जन्म-कृत-सुकृत-साध्यत्वेन बहुभिर् अज्ञातत्वात् । राज-दन्तादित्वाद् उपसर्जनस्य पर-निपातः । पवित्रम् इदम् उत्तमं प्रायश्चित्तैर् हि किंचिद् एकम् एव पापं निवर्त्यते । निवृत्तं च तत्-स्व-कारणे सूक्ष्म-रूपेण तिष्ठत्य् एव । यतः पुनस् तत्-पापम् उपचिनोति पुरुषः । इदं त्व् अनेक-जन्म-सहस्र-सञ्चितानां सर्वेषाम् अपि पापानां स्थूल-सूक्ष्मावस्थानां
तत्-कारणस्य चाज्ञानस्य च सद्य एवोच्छेदकम् । अतः सर्वोत्तमं पावनम् इदम् एव ।
न चातीन्द्रिये धर्म इवात्र कस्यचित् सन्देहः स्वरूपतः फलतश् च प्रत्यक्षताद् इत्य् आह प्रत्यक्षावगमम् अवगम्यते,नेनेत्य् अवगमो मानम् अवगम्यते प्राप्यत इत्य् अवगमः फलं प्रत्यक्षावगमो मानम् अस्मिन्न् इति स्वरूपतः साक्षि-प्रत्यक्षत्वम् । प्रत्यक्षो ऽवगमो ऽस्येति फलतः साक्षि-प्रत्यक्षत्वम् । मयेदं विदित्वम् अतो नष्टम् इदानीम् अत्र ममाज्ञानम् इति हि सार्वलौकिकः साक्ष्य्-अनुभवः ।
एवं लोकानुभव-सिद्धत्वे ऽपि तज्-ज्ञानं धर्म्यं धर्माद् अनपेतम् अनेक-जन्म-संचित-निष्काम-धर्म-फलम् । तर्हि दुःसम्पादं स्यान् नेत्य् आह । सुसुखं कर्तुं गुरूपदर्शित-विचार-सहकृतेन वेदान्त-वाक्येन सुखेन कर्तुं शक्यं न देश-कालादि-व्यवधानम् अपेक्षते प्रमाण-वस्तु-परतन्त्रत्वाज् ज्ञानस्य । एवम् अनायास-साध्यत्वे स्वल्प-फलत्वं स्याद् अत्यायास-साध्यानाम् एव कर्मणां महा-फलत्व-दर्शनाद् इति नेत्य् आह अव्ययम् । एवम् अनायास-साध्यस्याप्य् अस्य फलतो व्यह्तो नास्तीत्य् अव्ययम् अक्षय-फलम् इत्य् अर्थः । कर्मणा त्व् अतिमहताम् अपि क्षयि-फलत्वम् एव यो वा एतद् अक्षरं गार्ग्य् अविदित्वास्मिल् लोके जुहोति
यजते तपस् तप्यते बहूनि वर्ष-सहस्राण्य् अन्तवद् एवास्य तद् भवति इति [बौ 3.7.10] श्रुतेः । तस्मात् सर्वोत्कृष्टत्वाच् छ्रद्धेयम् एवात्म-ज्ञानम्

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc