भगवद्गीता · अध्याय 76
श्रीधरः - किं च राजविद्येति । इदं ज्ञानं राज-विद्या विद्यानां राजा । राज-गुह्यं गुह्यानां च राजा । विद्यासु गोप्येषु च अतिरहस्यं श्रेष्ठम् इत्य् अर्थः । राज-दन्तादित्वाद् उपसर्जनस्य परत्वम् । राज्ञां विद्या राज्ञां गुह्यम् इति वा । उत्तमं पवित्रम् इदम् अत्यन्त-पावनम् । ज्ञानिनां प्रत्यक्षावगमं च । प्रत्यक्षः स्पष्टो ऽवगमो ऽवबोधो यस्य तत् प्रत्यक्षावगमम् । दृष्ट-फलम् इत्य् अर्थः । धर्म्यं धर्माद् अनपेतम् । वेदोक्त-सर्व-धर्म-फलत्वात् । कर्तुं च सुसुखं कर्तुं शक्यम् इत्य् अर्थः
। अव्ययं चाक्षय-फलत्वात्
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0