भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 78

78.2

विश्वनाथः --- किं च । इदं ज्ञानं राज-विद्या विद्या उपासना विविधा एव भक्तयः तासां राजा । राज-दन्तादित्वाद् पर-निपातः । गुह्यानां राजेति भक्ति-मात्रम् एवातिगुह्यं तस्य बहुविधस्यापि राजा इति अतिगुह्यतमम् । पवित्रम् इदम् इति सर्व-पाप-प्रायश्चित्तत्वात् त्वं पदार्तह्-ज्ञानाच् च सकाशाद् अपि पावित्र्य-करम् । अनेक-जन्म-सहस्र-सञ्चितानां सर्वेषाम् अपि पापानां स्थूल-सूक्ष्मावस्थानां तत्-कारणस्य चाज्ञानस्य च सद्य एवोच्छेदकम् । अतः सर्वोत्तमं पावनम् इदम् एव इति मधुसूदन सरस्वतीपादाः । प्रत्यक्ष एवावगमो ऽनुभवो यस्य तत् ।
भक्तिः परेशानुभवो विरक्तिर्
अन्यत्र चैष त्रिक एक-कालः ।
प्रपद्यमानस्य यथाश्नतः स्युस्
तुष्टिः पुष्टिः क्षुद्-अपायो ऽनु-घासम् ॥ [भ्प् 11.2.42]
इत्य् एकादशोकेत्ः प्रतिपदम् एव भजनानुरूप-भगवद्-अनुभव-लाभात् । धर्म्यं धर्माद् अनपेतं सर्व-धर्माकरणे ऽपि सर्व-धर्म-सिद्धेः -
यथा तरोर् मूल-निषेचनेन
तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः ।
प्राणोपहाराच् च यथेन्द्रियाणां
तथैव सर्वार्हणम् अच्युतेज्या ॥ [भ्प् 4.31.14] इति नारदोक्तेः ।
कर्तुं सुसुखम् इति कर्म-ज्ञानादाव् इव नात्र को ऽपि कार-वाङ्-मानस-क्लेशातिशयः श्रवण-कीर्तनादि-भक्तेः श्रोत्रादीन्द्रिय-व्यापार-मात्रत्वात् । अव्ययं कर्म-ज्ञानादिवन् न नश्वरं निर्गुणत्वात्

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc