भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 75

75.1

बलदेवः -
भक्त्य्-उद्दीप्ति-करं स्वस्य पारमैश्वर्यम् अद्भुतम् ।
स्व-भक्तेश् च महोत्कर्षं नवमे हरिर् ऊचिवान् ॥
विज्ञानानन्द-घनो ऽसङ्ख्येय-कल्याण-गुण-रत्नालयः सर्वेश्वरो ऽहं शुद्ध-भक्ति-सुलभ इति सप्तमादिभ्याम् अभिधायेदानीं भक्तेर् उद्दीपकं निजैश्वर्यं तस्याः प्रभाव`अचाभिधास्यन्न् आदौ तां स्तौति इदम् इति त्रिभिः । इदं ज्ञानं मत्-कीर्तनादि-लक्षण-भक्ति-रूपम् । परत्र धर्मस्यास्य इत्य् उक्तेः । कीर्तनादेश् चिच्-छक्ति-वृत्तित्वात् । ज्ञायते ऽनेन इति निरुक्तेश् च । तत् किल गुह्यतमम् । द्वितीयादाव् उपदिष्टं मद्-ऐश्वर्य-ज्ञानं गुह्यतरम् इत्य् अर्थः । नवमादाव् उपदेश्यं तु केवल-भक्ति-लक्षणम् इदं ज्ञानं गुह्यतमम् इत्य् अर्थः । तच् च विज्ञान-सहितं मद्-अनुभवावसानं
ते वक्ष्यामि । कीदृशायेत्य् आह अनसूयव इति । मद्-गुणेषु दोषारोप-रहिताय दुर्गमस्य स्व-रहस्यस्यानुकम्पयोपदेष्टरि मयि निजैश्वर्य-प्रख्यापनेनात्मानं प्रशंससीति दोष-दृष्टि-शून्यायेत्य् अर्थः । तेनान्यो ऽप्य् एतद् अनसूयं प्रति ब्रूयाद् इति दर्शितम् । यज् ज्ञात्वा त्वम् अशुभात् संसारान् मोक्ष्यसे

75.2

भ्ग् 9.2
राज-विद्या राज-गुह्यं पवित्रम् इदम् उत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम्

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc