भगवद्गीता · अध्याय 74
विश्वनाथः ---
आराध्यत्वे प्रभोर् दासैर् ऐश्वर्यं यद् अपेक्षितम् ।
तत् शुद्ध-भक्तेर् उत्कर्षश् चोच्यते नवमे स्फुटम् ॥
कर्म-ज्ञान-योगादिभ्यः सकाशात् भक्तेर् एवे उत्कर्षः । सा च भक्तिः प्रधानीभूता केवला चेति सप्तमाष्टमयोर् उक्तम् । तत्रापि केवलाया अतिप्रबलाया ज्ञानवद् अन्तःकरण-शुद्ध्य्-आद्य्-अनपेक्षिन्या भक्तेः स्पष्टतया एव सर्वोत्कर्षः । तस्याम् अपेक्षितम् ऐश्वर्यं च वक्तुं नवमो ऽध्याय आरभ्यते । सर्व-शास्त्र-सार-भूतस्य गीता-शास्त्रस्यापि मध्यम् अध्याय-षट्कम् एव सारम् । तस्यापि मध्यमौ नवम-दशमाव् एव साराव् इत्य् अतो ऽत्र निरूपयिष्यमाणम् अर्थं स्तौति इदं त्व् इति त्रिभिः ।
द्वितीय-तृतीयाध्यायादिषु यद् उक्तं मोक्षोपयोगि-ज्ञानं गुह्यम् । सप्तमाष्टमयोर् मत्-प्राप्त्य्-उपयोगि-ज्ञानं ज्ञायते ऽनेन भगवत्-तत्त्वम् इति ज्ञानं भक्ति-तत्त्वं गुह्यतरम् । अत्र तु केवल-शुद्ध-भक्ति-लक्षणं ज्ञानं गुह्यतमं प्रकर्षेणैव तुभ्यं वक्ष्यामि । अत्र तु ज्ञान-शब्देन भक्तिर् अवश्यं व्याख्येया, न तु प्रथम-षट्कोक्तं प्रसिद्धं ज्ञानम् । पर-श्लोके ऽव्ययम् अनश्वरम् इति विशेषण-दानाद् गुणातीतत्व-लाभाद् गुणातीता भक्तिर् एव । न तु ज्ञानम्, तस्य सात्त्विकत्वात् । अश्रद्दधानाः पुरुषा धर्मस्यास्य इत्य् अग्रिम-श्लोके धर्म-शब्देनापि भक्तिर् एवोच्यते । अनसूयवे
ऽमत्सरायेत्य् अन्यो ऽपीदम् अमत्सरायैवोपदिशेद् इति विधिर् व्यञ्जितः । विज्ञान-सहितं मद्-अपरोक्षानुभव-पर्यन्तम् इत्य् अर्थः । अशुभात् संसाराद् भक्ति-प्रतिबन्धकाद् अन्तरायाद् वा
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0