भगवद्गीता · अध्याय 73
मधुसूदनः - पूर्वाध्याये मूर्धन्य् अनाडी-द्वारकेण हृदय-कण्ठ-भ्रू-मध्यादि-धारणा-सहितेन सर्वेन्द्रिय-द्वार-संयम-गुणकेन योगेन स्वेच्छयोत्क्रान्त-प्राणस्यार्चिर्-आदि-मार्गेण ब्रह्म-लोकं प्रयातस्य तत्र सम्यग्-ज्ञानोदयेन कल्पान्ते पर-ब्रह्म-प्राप्ति-लक्षणा क्रम-मुक्तिर् व्याख्याता । तत्र चानेनैव प्रकारेण मुक्तिर् लभ्यते नानयथेत्य् आशङ्क्य- अनन्य-चेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः इत्य् आदिना भगवत्-तत्त्व-विज्ञानात् साक्षान् मोक्ष-प्राप्तिर् अभिहिता । तत्र चानन्या भक्तिर् असाधारणो हेतुर् इत्य् उक्तं पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया इति । तत्र पूर्वोक्त-योग-धारणा-पूर्व-प्राणोत्क्रमणार्चिर्-आदि-मार्ग-गमन-काल-विलम्बादि-क्लेशम्
अन्तरेणैव साक्षान् मोक्ष-प्राप्तये भगवत्-तत्त्वस्य तद्-भक्तेश् च विस्तरेण ज्ञापनाय नवमो ऽध्याय आरभ्यते । अष्टमे ध्येय-ब्रह्म-निरूपणेन तद्-ध्यान-निष्ठस्य गतिर् उक्ता । नवमे तु ज्ञेय-ब्रह्म-निरूपणेन ज्ञान-निष्ठस्य गतिर् उच्यत इति सङ्क्षेपः । तत्र वक्ष्यमाण-ज्ञान-स्तुत्य्-अर्थास् त्रीन् श्लोकान् ।
इदं प्राग् बहुधोक्तम् अग्रे च वक्ष्यमाणम् अधुनोच्यमानं ज्ञानं शब्द-प्रमाणकं ब्रह्म-तत्त्व-विषयकं ते तुभ्यं प्रवक्ष्यामि । तु-शब्दः पूर्वाध्यायोक्ताद् ध्यानाज् ज्ञानस्य वैलक्षण्यम् आह । इदम् एव सम्यग्-ज्ञानं साक्षान् मोक्ष-प्राप्ति-साधनं न तु ध्यानं तस्याज्ञानानिवर्तकत्वात् । तत् त्व् अन्तःकरण-शुद्धि-द्वारेदम् एव ज्ञानं सम्पाद्य क्रमेण मोक्षं जनयतीत्य् उक्तम् ।
कीदृशं ज्ञानं गुह्यतमं गोपनीयतमम् अतिरहस्यत्वात् । यतो विज्ञान-सहितं ब्रह्मानुभव-पर्यन्तम् । ईदृशम् अतिरहस्यम् अप्य् अहं शिष्य-गुणाधिक्याद् वक्ष्यामि तुभ्यम् अनसूयवे । असूया गुणेषु दोष-दृष्टिस् तद्-आविष्करणादि-फला । सर्वदायम् आत्मैश्वर्य-ख्यापनेनात्मानं प्रशंसति मत्-पुरस्ताद् इत्य् एवं रूपा तद्-रहिताय । अनेनार्जुअव-संयमाव् अपि शिष्य-गुणौ व्याख्यातौ । पुनः कीदृशं ज्ञानं यज् ज्ञात्वा प्राप्य मोक्ष्यसे सद्य एव संसार-बन्धनाद् अशुभात् सर्व-दुःख-हेतोः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0