भगवद्गीता · अध्याय 72
श्रीधरः -
परेशः प्राप्यते शुद्ध-भक्त्येति स्थितम् अष्टमे ।
नवमे तु तद्-ऐश्वर्यम् अत्याश्चर्यं प्रपञ्च्यते ॥
एवं तावत् सप्तमाष्टमयोः स्वीयं पारमेश्वरं तत्त्वं भक्त्यैव सुलभं नान्यथा इत्य् उक्त्वा इदानीम् अचिन्त्यं स्वकीयम् ऐश्वर्यं भक्तेश् चासाधारणं प्रभाव`अप्रपञ्चयिष्यन् भगवान् उवाच इदम् इति । विशेषेण ज्ञायते ऽनेनेति विज्ञानम् उपासनम् । तत्-सहितं ज्ञानम् ईश्वर-विषयम् । इदं त्व् अनुसूयवे पुनः पुनः स्व-माहात्म्यम् एवोपदिशतीत्य् एवं परम-कारुणिके मयि दोष-दृष्टि-रहिताय । तुभ्यं वक्ष्यामि । तु-शब्दो वैशिष्ट्ये
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0