भगवद्गीता · अध्याय 67
विश्वनाथः ---
पार्थ-प्रश्नोत्तरं योगं मिश्रां भक्तिं प्रसङ्गतः ।
शुद्धां च भक्तिं प्रोवाच द्वे गती अपि चास्टमे ॥
पूर्वाध्यायान्ते ब्रह्मादि-सप्त-पदार्थानां ज्ञानं भगवतोक्तम् । अत्र तेषां तत्त्वं जिज्ञासुः पृच्छति द्वाभ्याम् । अत्र देहे को ऽधियज्ञो यज्ञाधिष्ठाता, स चास्मिन् देहे कथं ज्ञेय इत्य् उत्तरस्यानुसङ्गी ॥1-2॥
बलदेवः -
उत्कान् पृष्टः क्रमाद् व्याख्यद् ब्रह्मादीन् हरिर् अष्टमे ।
योग-मिश्रां च शुद्धां च भक्ति-मार्ग-द्वयं तथा ॥
पूर्वाध्यायान्ते मुमुक्षाणां ज्ञेयतयोद्दिष्टान् ब्रह्मादीन् सप्तार्थान् विबोद्धुम् अर्जुनः पृच्छति । किं तद् ब्रह्मेति किं परमात्म-चैतन्यं वा । किं जीवात्म-चैतन्यं वा तद् ब्रह्मेत्य् अर्थः । किम् अध्यात्मम् इति आत्मानं देहम् अधिकृत्येति निरुक्तेः । श्रोत्रादीन्द्रिय-वृन्दं वा सूक्ष्म-भूत-वृन्दं वा तद् इति । आवयोस् तौल्यात् किम् इति मां पृच्छसीति शङ्कां निवर्तयितुं सम्बोधनं हे पुरुषोत्तमेति । परेशत्वात् तव सर्वं सुविदितं न तु मेमेति भावः । अधिभूतं च किम् इति भूतान्य् अधिकृत्येति निरुक्तेर् घट्यादि-कार्यं वा स्थूल-शरीरं
वा तद् इति । अधिदैवं किम् इति देवता-विषयकम् अनुध्यानं वा समष्टिर् विराट् वा तद् इति
भ्ग् 8.2
अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयो ऽसि नियतात्मभिः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0