भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 66

66.1

मधुसूदनः - पूर्वाध्यायान्ते ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् इत्य् आदिना सार्ध-श्लोकेन सप्त-पदार्था ज्ञेयत्वेन भगवता सूत्रितास् तेषां वृत्ति-स्थानीयो ऽयम् अष्टमो ऽध्याय आरभ्यते । तत्र सूत्रितानि सप्त-वस्तूनि विशेषतो बुभुत्समानः श्लोकाभ्याम् । तज्-ज्ञेयत्वेनोक्तं ब्रह्म किं सोपाधिकं निरुपाधिकं वा । एवम् आत्मानं देहम् अधिकृत्य तस्मिन्न् अधिष्ठाने तिष्ठतीत्य् अध्यात्मं किं श्रोत्रादिकरण-ग्रामो वा प्रत्यक्-चैतन्यं वा । तथा कर्म चाखिलम् इत्य् अत्र किं कर्म यज्ञ-रूपम् अन्यद् वा विज्ञान्तं यज्ञं तनुते कर्माणि तनुते ऽपि च इति श्रुतौ द्वैविध्य-श्रवणात् ।
तव मम च समत्वात् कथं त्वं मां पृच्छसीति शङ्काम् अपनुदन् सर्व-पुरुषेभ्य उत्तमस्य सर्वज्ञस्य तव न किंचिद् अज्ञेयम् इति संबोधनेन सूचयति हे पुरुषोत्तमेति । अधिभूतं च किं प्रोक्तं पृथिव्यादिभूतम् अधिकृत्य यत् किंचित् कार्यम् अधिभूत-पदेन विवक्षितं किं वा समस्तम् एव कार्य-जातम् । च-कारः सर्वेषां प्रश्नानां समुच्चयार्थः । अधिदैवं किम् उच्यते देवता-विषयम् अनुध्यानं वा सर्वदैवतेष्व् आदिय्त-मण्डलादिष्व् अनुस्यूतं चैतन्यं वा

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc