ग्रंथ पाठ
भगवद्गीता · अध्याय 68
68.2
श्रीधरः - किं च - अधियज्ञ इति । अत्र देहे योउ यज्ञो निवर्तते तस्मिन् को ऽधियज्ञो ऽधिष्ठाता । प्रयोजकः फल-दाता च क इत्य् अर्थः । स्वरूपं पृष्ट्वाधिष्ठान-प्रकारं पृच्छति - कथं केन प्रकारेणासाव् अस्मिन् देहे स्थितो यज्ञम् अधितिष्ठन्तीत्य् अर्थः । यज्ञ-ग्रहणं सर्व-कर्मणाम् उपलक्षणार्थम् । अन्त-काले च नियत-चित्तैः पुरुषैः कथं केनोपायेन ज्ञेयो ऽसि
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0