भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 61

61.2

मधुसूदनः - ज्ञास्यसीत्य् उक्ते परोक्षम् एव तज् ज्ञानं स्याद् इति शङ्कां व्यावर्तयन् स्तौति श्रोतुर् आभिमुख्याय ज्ञानम् इति । इदं मद्-विषयं स्वतो ऽपरोक्ष-ज्ञानम् । असम्भावनादि-प्रतिबन्धेन फलम् अजनयत् परोक्षम् इत्य् उपचर्यते असम्भावनादि-निरासे तु विचार-परिपाकान्ते तेनैव प्रमाणेन जनितं ज्ञानं प्रतिबन्धाभावात् फलं जनयद्-अपरोक्षम् इत्य् उच्यते । विचार-परिपाक-निष्पन्नत्वाच् च तद् एव विज्ञानं, तेन विज्ञानेन सहितम् इदम् अपरोक्षम् एव ज्ञानं शास्त्र-जन्यं ते तुभ्यम् अहं परम् आप्तो वक्ष्याम्य् अशेषतः साधन-फलादि-सहितत्वेन निरवशेषं
कथयिष्यामि । श्रौतीम् एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञाम् अनुसरन्न् आह यज्-ज्ञानं नित्य-चैतन्य-रूपं ज्ञात्वा वेदान्त-जन्य-मनो-वृत्ति-विषयीकृत्येह व्यवहार-भूमौ भूयः पुनर् अपि अन्यत् किंचिद् अपि ज्ञातव्यं नावशिष्यते । सर्वाधिष्ठान-सन्-मात्र-ज्ञानेन कल्पितानां सर्वेषां बाधे सन्-मात्र-परिशेषात् तन्-मात्र-ज्ञानेनैव त्वं कृतार्थो भविष्यसीत्य् अभिप्रायः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc