भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 60

60.2

श्रीधरः - वक्ष्यमाणं ज्ञानं स्तौति ज्ञानम् इति । ज्ञानं शास्त्रीयं विज्ञानम् अनुभवः । तत्-सहितम् इदं मद्-विषयम् अशेषतः साकल्येन वक्ष्यामि । यज् ज्ञात्वेह श्रेयो-मार्गे वर्तमानस्य पुनर् अन्यज् ज्ञातव्यम् अवशिष्टं न भवति । तेनैव कृतार्थो भवतीत्य् अर्थः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc