ग्रंथ पाठ
भगवद्गीता · अध्याय 62
62.2
विश्वनाथः - तत्र मद्-भक्तेर् आसक्ति-भूमिकातः पूर्वम् अपि मे ज्ञानम् ऐश्वर्य-मयं भवेत् । तद्-उत्तरं विज्ञानं माधुर्यानुभव-मयं भवेत् । तद्-उभयम् अपि त्वं शृण्व् इत्य् आह ज्ञानम् इति । अन्यज् ज्ञातव्यं नाविशिष्यते इति मन्-निर्विशेष-ब्रह्म-ज्ञान-विज्ञाने ऽप्य् एतद्-अन्तर्भूत एवेत्य् अर्थः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0