भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 48

48.1

श्रीधरः :
चित्ते शुद्धे ऽपि न ध्यानं विना संन्यास-मात्रतः ।
मुक्तिः स्याद् इति षष्ठे ऽस्मिन् ध्यान-योगो वितन्वते ॥
पूर्वाध्याये संक्षेपेणोक्तं योगं प्रपञ्चयितुं षष्ठाध्यायारम्भः । तत्र तावत् सर्व-कर्माणि मनसा संन्यस्य [गीता 5.13] इत्य् आरभ्य संन्यास-पूर्विकाया ज्ञान-निष्ठायास् तात्पर्येनाभिधानाद् दुःख-रूपत्वाच् च कर्मणः सहसा संन्यासातिप्रसङ्गं प्राप्तं वारयितुं संन्यासाद् अपि श्रेष्ठत्वेन कर्म-योगं स्तौति अनाश्रित इति द्वाभ्याम् । कर्म-फलम् अनाश्रितो ऽनपेक्षमाणः सन्न् अवश्य-कार्यतया विहितं कर्म यः करोति, स एव संन्यासी योगी च न तु निरग्निर् अग्नि-साध्येष्टाख्य-कर्म-त्यागी । न चाक्रियो ऽनग्नि-साध्य-पूर्ताख्य-कर्म-त्यागी

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc