भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 42

42.1

बलदेवः :
ज्ञानतः कर्मणः श्रैष्ठ्यं सुकरत्वादिना हरिः ।
शुद्धस्य तद्-अकर्तृत्वं त्वेत्य् आदि प्राह पञ्चमे ॥
द्वितीये मुमुक्षुं प्रत्य् आत्म-विज्ञानं मोचकम् अभिधाय तद्-उपायया निष्कामं कर्म कर्तव्यम् अभ्यधात् । लब्ध-विज्ञानस्य न किंचित् कर्मास्तीति यस् त्व् आत्म-रतिर् एव स्यात् इति तृतीये, सर्वं कर्माखिलं पार्थ इति चतुर्थे चावादीत् । अन्ते तु तस्माद् अज्ञान-संभूतं [गीता 4.42] इत्य् आदिना तस्यैव पुनः कर्म-योगं प्रावोचत् । तत्रार्जुनः पृच्छति संन्यासम् इति । हे कृष्ण ! कर्मणां सन्न्यासं सर्वेन्द्रिय-व्यापार-विरति-रूपं ज्ञान-योगम् इत्य् अर्थः । पुनर् योगं कर्मानुष्ठानं च सर्वेन्द्रिय-व्यापार-रूपं शंससि । न चैकस्य युगपत् तौ सम्भवेतां,
स्थिति-गतिवत् तमस्-तेजोवच् च विरुद्ध-स्वरूपत्वात् । तस्माल् लब्ध-ज्ञानः कर्म सन्न्यसेद् अनुतिष्ठेद् वेति भवद्-अभिमतं वेत्तुम् अशक्तो ऽहं पृच्छामि । एतयोः कर्म-सन्न्यास-कर्मानुष्ठानयोर् यद् एकं श्रेयस् त्वया सुनिश्चितं तत्त्वं मे ब्रूहीति

42.2

भ्ग् 5.2
श्री-भगवान् उवाच
संन्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ ।
तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc