भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 43

43.2

श्रीधरः : अत्रोत्तरं श्री-भगवान् उवाच संन्यास इति । अयं भावः - न हि वेदान्त-वेद्यात्म-तत्त्वज्ञं प्रति कर्म-योगम् अहं ब्रवीमि । यतः पूर्वोक्तेन संन्यासेन विरोधः स्यात् । अपि तु देहात्माभिमानिनं त्वां बन्धु-वधादि-निमित्त-शोक-मोहादि-कृतम् एनं संशयं देहात्म-विवेक-ज्ञानासिना छित्त्वा परमात्म-ज्ञानोपाय-भूतं कर्म-योगम् आतिष्ठेति ब्रवीमि । कर्म-योगेन शुद्ध-चित्तस्यात्म-तत्त्व-ज्ञाने जाते सति तत्-परिपाकार्थं ज्ञान-निष्ठाङ्गत्वेन संन्यासः पूर्वम् उक्तः । एवं सत्य् अङ्ग-प्रधानयोर् विकल्प-योगात् संन्यासः कर्म-योगश्
चेत्य् एताव् उभाव् अपि भूमिका-भेदेन समुच्चिताव् एव निःश्रेयसं साधयतः । तथापि तु तयोर् मध्ये तु कर्म-संन्यासात् सकाशात् कर्म-योगो विशिष्टो भवतीति

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc