भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 4

4.1

बलदेवः --
सत्यानन्ताचिन्त्य-शक्त्य्-एक-पक्षे
सर्वाध्यक्षे भक्त-रक्षातिदक्षे ।
श्री-गोविन्दे विश्व-सर्गादि-कण्डे
पूर्णानन्दे नित्यम् आस्तां मतिर् मे ॥
अज्ञान-नीरधिर् उपैति यया विशेषं
भक्तिः परापि भजते परिपोषम् उच्चैः ।
तत्त्वं परं स्फुरति दुर्गमम् अप्य् अजस्रं
साद्गुण्य-भृत् स्वरचितां प्रणमामि गीताम् ॥
अथ सुख-चिद्-घनः स्वयं भगवान् अचिन्त्य-शक्तिः पुरुषोत्तमः स्व-सङ्कल्पायत्त-विचित्र-जगद्-उदयादि-विरिञ्च्य्-आदि-सञ्चिन्त्य-चरणः स्व-जन्मादि-लीलया स्व-तुल्यान् सहाविर्भूतान् पार्षदान् प्रहर्षयंस् तयैव जीवान् बहून् अविद्याशार्दूलीवदनाद् विमोच्य स्वान्तर्धानोत्तर-भाविनो ऽन्यानुद्दिधीर्षुर् आहव-मूर्ध्नि स्वात्म-भूतम् अप्य् अर्जुनम् अवितर्क्य-स्व-शक्त्या समोहम् इव कुर्वन् तन्-मोह-विमार्जनापदेशेन सपरिकर-स्वात्म-याथात्म्यैक-निरूपिकां स्व-गीतोपनिषदम् उपादिशत् ।
तस्यां खल्व् ईश्वर-जीव-प्रकृति-काल-कर्माणि पञ्चार्था वर्ण्यन्ते । तेषु विभु-संविद् ईश्वरः । अणु-संविज् जीवः । सत्त्वादि-गुण-त्रयाश्रयो द्रव्यं प्रकृतिः । त्रैगुण्य-शून्यं जड-द्रव्यं कालः । पुं-प्रयत्न-निष्पाद्यम् अदृष्टादि-शब्द-वाच्यं कर्मेति ।
तेषां लक्षणानि । एष्व् ईश्वरादीनि चत्वारि नित्यानि । जीवादीनि त्व् ईश्वर-वश्यानि । कर्म तु प्राग्-अभाववद् अनादि विनाशि च । तत्र संवित्-स्वरूपो ऽपीश्वरो जीवश् च संवेत्तास्मद्-अर्थश् च - विज्ञानम् आनन्दं ब्रह्म, यः सर्वज्ञः सर्ववित्, मन्ता बोद्धा कर्ता विजानात्मा पुरुषः, इत्य् आदि श्रुतेः । सो ऽकामयत बहु स्याम्, सुखम् अहम् अस्वाप्सं न किञ्चिद् अवेदिषम् इत्य् आदि श्रुतेश् च । न चोभयत्र महत्-तत्त्व-जातो ऽयम् अहङ्कारः ।
तदा तस्यानुत्पत्तेर् विलीनत्वाच् च । स च स च कर्ता भोक्ता सिद्धः सर्वज्ञः सर्व-वित् कर्ता बोद्धा इति पदेभ्यः । अनुभवितृत्वं कह्लु भोक्तृत्वं सर्वाभ्युपगतम् । सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इति श्रुतेस् तूभयोस् तत् प्रव्यक्तम् । यद्यपि संवित्-स्वरूपात् संवेत्तृत्वादि नान्यत् प्रकाश-स्वरूपाद् रवेर् इव प्रकाशकत्वादि, तथापि विशेष-सामर्थ्यात् तद्-अन्यत्व-व्यवहारः । विशेषश् च भेद-प्रतिनिधिर् न भेदः । स च भेदाभावे ऽपि भेद-कार्यस्य धर्म-धर्मि-भावादि-व्यवहारस्य हेतुः ।सत्ता सती भेदो भिन्नः कालः सर्वदास्तीत्य् आदिषु विद्वद्भिः प्रतीतः । तत्-प्रतीत्य्-अन्यथानुपपत्त्या - एवं धर्मान् पृथक् पश्यंस्
तान् एवानुविधावति इति श्रुत्या च सिद्धः । इह हि ब्रह्म-धर्मान् अभिधाय तद्-भेदः प्रतिषिध्यते ।
न खलु भेद-प्रतिनिधेस् तस्याप्य् अभावे धर्म-धर्मि-भाव-धर्म-बहुत्वे शक्ये वक्तुम् इत्य् अनिच्छुभिर् अपि स्वीकार्याः स्युः त इमे ऽर्थाः शास्त्रे ऽस्मिन् यथास्थानम् अनुसन्धेयाः । इह हि जीवात्म-परमात्म-तद्-धाम तत्-प्राप्त्य्-उपायानां स्वरूपाणि यथावन् निरूप्यन्ते । तत्र जीवात्म-याथात्म्य-परमात्म-याथात्म्योपयोगितया परमात्म-याथात्म्यं तु तद्-उपासनोपयोगितया प्रकृत्यादिकं तु परमात्मनः स्रष्टुर् उपकरणतयोपदिश्यते ।
तद्-उपायाश् च कर्म-ज्ञान-भक्ति-भेदात् त्रेध । तत्र श्रुत-तत्-तत्-फलनैर् अपेक्षेण कर्तृत्वाभिनिवेश-परित्यागेन चानुष्ठितस्य स्व-विहितस्य कर्मणः हृद्-विशुद्धि-द्वारा ज्ञान-भक्त्योर् उपकारित्वात् परम्परया तत्-प्राप्ताव् उपायत्वम् । तच् च श्रुति-विहित-कर्म हिंसा-शून्यम् अत्र मुख्यम् । मोक्ष-धर्मे पिता-पुत्रादि-संवादात् हिंसावत् तु गौणं विप्रकृष्टत्वात् तयोस् तु साक्षाद् एव तथात्वम् ।
ननु, तथानुष्ठितेन कर्मणा हृद्-विशुद्ध्या ज्ञानोदयेन मुक्तौ सत्यां भक्त्या को विशेषः । उच्यते, ज्ञानम् एव किञ्चिद् विशेषाद् भक्तिर् इति । निर्णिमेष-वीक्षण-कटाक्ष-वीक्षण-वदनयोर् अन्तरं चिद्-विग्रहतयानुसन्धिर् ज्ञानं तेन तत् सालोक्यादिः । विचित्र-लीला-रसाश्रयतयानुसन्धिस् तु भक्तिस् तया क्रोडीकृत-सालोक्यादि-तद्-वरीवस्यानन्द-लाभः पुमर्थः । भक्तेर् ज्ञानत्वं तु "सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति" इति श्रुतेः सिद्धम् ।
तद् इदं श्रवणादि-भावादि-शब्द-व्यपदिष्टं दृष्टम् । ज्ञानस्य श्रवणाद्याकारत्वं चित्-सुखस्य विष्णोः कुन्तलादि-प्रतीकत्ववत् प्रत्येतव्यम् इति वक्ष्यामः । षट्-त्रिके ऽस्मिन् शास्त्रे प्रथमेन षट्केनेश्वरांशस्य जीवस्यांशीश्वर-भक्त्य्-उपयोगि-स्वरूप-दर्शनम् । तच् चान्तर्-गत-ज्ञान-निष्काम-कर्म-साध्यं निरूप्यते । मध्येन परम-प्राप्यस्यांशीश्वरस्य प्रापणी भक्तिस् तन्-महिम-धी-पूर्विकाभिधीयते । अन्त्येन तु पूर्वोदितानाम् एवेश्वरादीनां स्वरूपाणि परिशोध्यन्ते । त्रयाणां षट्कानां कर्म-भक्ति-ज्ञान-पूर्वता-व्यपदेशस् तु तत्-तत्-प्राधान्येनैव । चरमे भक्तेः प्रतिपत्तेश् चोक्तिस् तु
रत्न-सम्पुटोर्ध्व-लिखित-तत्-सूचक-लिपि-न्यायेन ।
अस्य शास्त्रस्य श्रद्धालुः सद्-धर्म-निष्ठो विजितेन्द्रियो ऽधिकारी । स च स-निष्ठ-परिनिष्ठित-निरपेक्ष-भेदात् त्रिविधः । तेषु स्वर्गादि-लोकान् अपि दिदृक्ष्र् निष्ठया स्व-धर्मान् हर्य्-अर्चन-रूपान् आचरन् प्रथमः । लोक-संजिघृक्षया तान् आचरन् हरि-भक्ति-निरतो द्वितीयः । स च स च साश्रमः । सत्य-तपो-जपादिभिर् विशुद्ध-चित्तो हर्य्-एक-निरतस् तृतीयो निराश्रमः । वाच्य-वाचक-भावः सम्बन्धः । वाच्य उक्त-लक्षणः श्री-कृष्णः । वाचकस् तद्-गीता-शास्त्रं तादृशः सो ऽत्र विषयः । अशेष-क्लेश-निवृत्ति-पूर्वकस् तत्-साक्षात्-कारस्
तु प्रयोजनम् इत्य् अनुबन्ध-चतुष्टयम् । अत्रेश्वरादिषु त्रिषु ब्रह्म-शब्दो ऽक्षर-शब्दश् च बद्ध-जीवेषु तद्-देहेषु च क्षर-शब्दः । ईश्वर-जीव-देहे मनसि बुद्धौ धृतौ यत्ने चात्म-शब्दः । त्रिगुणायां वासनायां शीले स्वरूपे च प्रकृति-शब्दः । सत्ताभिप्राय-स्वभाव-पदार्थ-जन्मसु क्रियास्व् आत्मसु च भाव-शब्दः । कर्मादिषु त्रिषु चित्त-वृत्ति-निरोधे च योग-शब्दः पठ्यते । एतच् छास्त्रं खलु स्वयं भगवतः साक्षाद् वचनं सर्वतः श्रेष्ठं --
गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः ।
या स्वयं पद्मनाभस्य मुख-पद्माद् विनिःसृता ॥ इति पाद्मात् ।
धृतराष्ट्रादि-वाक्यं तु तत्-सङ्गति-लाभाय द्वैपायनेन विरचितम् । तच् च लवणाकर-निपात-न्यायेन तन्-मयम् इत्य् उपोद्घातः ।
सङ्ग्राम-मूर्ध्नि संवादो
यो ऽभूद् गोविन्द-पार्थयोः ।
तत्-सङ्गत्यै कथां प्राख्याद्
गीतासु प्रथमे मुनिः ॥
इति तावद् भगवद्-अर्जुन-संवादं प्रस्तौतुं कथा निरूप्यते। धर्मक्षेत्रे इत्य् आदिभिः सप्त-विंशत्या । तद्-भगवतः पार्थ-सारथ्यं विद्वान् धृतराष्ट्रः स्व-पुत्र-विजये सन्दिहानः सञ्जयं पृच्छतीत्य् आह । जन्मेजयं प्रति वैशम्पायनः धृतराष्ट्र उवाचेति । युयुत्सवो योद्धुम् इच्छवो मामका मत्-पुत्राः पाण्डवाश् च कुरुक्षेत्रे समवेताः किम् अकुर्वतेति ।

ननु युयुत्सवः समवेता इति त्वम् एवात्थ्य ततो युधेरन्न् एव पुनः किम् अकुर्वतेति कस् ते भाव इति चेत्, तत्राह - धर्मक्षेत्र इति । "यद् अनु कुरुक्षेत्रं देवानां देव-यजनं सर्वेषां भूतानां ब्रह्म-सदनम् इत्य् आदि-श्रवणाद् धर्म-प्ररोहि-भूमि-भूतं कुरुक्षेत्रं प्रसिद्धम् । तत्-प्रभावाद् विनष्ट-विद्वेषा मत्-पुत्राः किं पाण्डवेभ्यस् तद्-राज्यं दातुं निश्चिक्युः । किं वा, पाण्डवाः सदैव धर्म-शीला धर्म-क्षेत्रे तस्मिन् कुल-क्षय-हेतुकाद् अधर्माद् भीता वन-प्रवेशम् एव श्रेयो विममृशुर् इति । हे सञ्जयेति व्यास-प्रसादाद् विनष्ट-राग-द्वेषस्
त्वं तथ्यं वदेत्य्-अर्थः । पाण्डवानां मामकत्वानुक्तिर् धृतराष्ट्रस्य तेषु द्रोहम् अभिव्यनक्ति । धान्य-क्षेत्रात् तद्-विरोधिनां धान्याभासानाम् इव धर्म-क्षेत्रात् तद्-विरोधिनां धर्माभासानां त्वत्-पुत्राणाम् अपगमो भावीति धर्म-क्षेत्र-शब्देन गीर्-देव्या व्यज्यते

4.2

भ्ग् 1.2
संजय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा ।
आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत्

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc